SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं २४६ ऽभयदानं तदुच्यते ।।३।। ज्ञानाभयप्रदातृणामाहाराद्यैरुपग्रहः । दत्तैर्यैर्जायते शुद्धैस्तद्वर्म्मोपगृहं स्मृतम् ।।४।। शीलमपि सदाचाररूपं, अष्टादशसहस्रं शीलाङ्गलक्षणं, ब्रह्मव्रतरूपं चेति त्रिविधं यदुच्यते-' सुद्धं समायारमनिन्दणिज्जं, सहस्सअट्ठारसभेयभिन्नं । बंभाभिहाणं च महावयंति । सीलं तिहा केवलिणो वयंति ||१|| तपो बाह्याभ्यन्तररूपं द्वादशविधं, षष्ठ्यधिकत्रिशतभेदं वा । यदुक्तं श्रीगणिविद्याप्रकीर्णके‘महा भरणि पुव्वाणि, तिणि उग्गा विआहिआ । एएसु तवंकुज्जा, सब्मिंतरबाहिर ।।१।। तिण्णिसयाणि सट्ठाणि, तवो कम्माणि आहिया । उग्गनक्खत्तजोएसु, तेसुमन्नयरं चरे ।।२।।' कैश्चित्तु शारीरादिभेदं त्रिविधमप्युच्यते-यदुक्तं 'गुरुगुणषट्त्रिंशिकावृत्तौ' कैश्चित्तपस्त्रिविधं शारीरादिभेदमप्युच्यते, यथादेवातिथिगुरुप्राज्ञ-पूजनं शौचमार्जवं । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।।१।। अनुद्वेगकरं वाक्यं सत्यं प्रियं हितं च यत् । स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते ।। २ ।। मनःप्रसादः सौम्यत्वं, मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत् मानसं तप उच्यते । । ३ । । शारीराद् वाङ्मयं सारं, वाङ्मयान्मानसं शुभं । जघन्यमध्यमोत्कृष्टनिर्जराकरणं तपः || ४ || सात्त्विकं, राजसं, तामसमिति वा त्रिविधं ; यथा - तपश्च त्रिविधं ज्ञेयमफलाकाङ्क्षिभिर्नरैः । श्रद्धया परया तप्तम्, सात्त्विकं तप उच्यते ।।१।। सत्कारमानपूजार्थम्, तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तम्, राजसं चलमध्रुवम् ।।२।। मूढग्रहेण यच्चात्म-पीडया क्रियते तपः । परस्योच्छेदनार्थं वा, तत्तामसमुदाहृतम् ।।३।।' भावना-अनित्यत्वा १ शरण २ संसारै ३ कत्वा ४ ऽन्यत्वा ५ शौचा ६ श्रव ७ संवर ८ कर्म्मनिर्ज्जरा ९ धर्म्मस्वाख्यातता १० लोक ११ बोधिभावना १२ रूपा द्वादशैव, अत्र द्वन्द्वः, ता एव चतस्रो विधा: प्रकारा यस्य स दानशीलतपोभावना चतुर्विधः । सूत्रे च बन्धानुलोभ्याद् व्यत्ययनिर्देशः, एवंविधो यो धर्म्मस्तरयान्तरायो विघ्नस्तस्माद् यद्भयं तेन भीताः, सा ,
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy