________________
गच्छाचारपइण्णयं
__ २५० तेन सरसगीतासक्तेन न वारिताः, पश्चाद् रात्रौ राजा प्रबुद्धो रुष्टः, तैलमुत्काल्य तस्य कर्णयोः क्षिपति, स मृतः, राज्ञः पश्चात्तापो जातः, यत्स्वल्पेऽप्यपराधे मया गुरुर्दण्डः कृतः इति । इतश्च तत्रायातः केवली, राजा तं वन्दित्वा तस्य कथां पृच्छति, रामाभवादारभ्य यथास्थितमाख्यत्, अग्रतस्तस्य भूयान् संसारः, इति श्रुत्वा श्रवणेन्द्रियविपाकदारुणं दृष्ट्वा महाबलः प्रव्रजितः शिवमाप । इति श्रवणेन्द्रियविषयविपाके रामकथा १।
विजयपुरे विश्वम्भरिभूपः, कुशलो मन्त्री, यशोधरः श्रेष्ठी, त्रयाणामन्योन्यं प्रीतिः, अन्यदा त्रयाणामपि त्रयः पुत्रा जाताः, यौवनमापुः, अन्यदा मन्त्री श्रेष्ठिनमाह-यथा तव पुत्रो न भव्यः, यतो राजकुले व्रजन् राज्ञोऽन्तःपुरीः सुचिरं तृषितः प्रेक्षते, गच्छति कालेऽयं विनाशमपि करिष्यति, ततो वार्यताम्, स श्रेष्ठिना वारितोऽपि न तिष्ठति, अन्यदा नृपेण सुचिरं सरागदृष्या रमणीः प्रेक्ष्यमाणो दृष्टः, हक्कितो बाढं, निषिद्धो राजकुले प्रवेशोऽपि तस्य, ततश्च चपलाक्ष इति प्रसिद्धो जातः । अन्यदा वणिक्पुत्रैः सह विदेशे प्रहितः, तत्रापि चक्षुरिन्द्रियपरवशः प्रासादारामवापीकूपादीन् प्रत्यहं विलोकते । अन्यदा प्रासादे क्वापि पाषाणपुत्रिकां दिव्यरूपां दृष्ट्वा तामेव पश्यन्नास्ते, भोजनाद्यपि मुक्तम्, ततो वणिक्पुत्रैस्तादशी वस्त्रमयी पुत्रिका कारिता, पाषाणपुत्रिकां गोपयित्वा तत्स्थाने स्थापिता, स तां निरीक्षते, ततो वणिक्पुत्रैः सा उत्तारके नीता, स तामेव विलोकमानः पृष्टिलग्नः समागात्, वणिक्पुत्रा व्यवसायं कृत्वा वस्त्रपुत्रिकां गृहित्वा स्वपुरं प्रति चलिताः श्रेष्ठिपुत्रयुताः, मार्गे धाट्या लुण्टितः सार्थः, वस्त्रपुत्रिका गृहीता, तामपश्यन् श्रेष्ठिर्ग्रहिलो जातः अटव्यां भ्रमति, अन्यदा विजयपुरं प्राप्तः, अन्यदा राजाङ्गना वने क्रीडन्तीदृष्ट्वा तदेकदृष्टिरास्ते, राजपुरुषैर्मारितो मृतः शलभो जातः, दहने च मृतः, एवमनेकभवं भ्रान्तः । इति चक्षुरिन्द्रियविषयविपाके चपलाक्षकथा २ ।