SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१९ गच्छाचारपइण्णयं अणसणाए छेएत्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववण्णे चत्तारि पलिओवमाई ठिई महाविदेहे वासे सिज्झिहितित्ति । हत्युपाशकदशाङ्गे । इति गाथाछन्दः ।।९५।। जत्थ समुद्देसकाले, साहूणं मंडलीए अज्जाओ । गोअम ! ठवंति पाए, इत्थीरजं न तं गच्छं ।।९६।। यत्र समुद्देशकाले साधूनां मण्डल्यां आर्याः । गौतम ! स्थापयन्ति पादौ स्त्रीराज्यं न स गच्छः ॥९६॥ व्याख्या - ‘जत्थ स०' यत्र गणे समुद्देशकाले-भोजनसमये साधूनां मण्डल्यां आर्याः-संयत्यः पादा स्थापयन्ति मण्डल्यां समागच्छन्तीत्यर्थः, हे इन्द्रभूते ! तत् स्त्रीराज्यं जानीहि, न तं गच्छम् । अत्र समुद्देशशब्देन भोजनमुच्यते, यदुक्तं ओघनियुक्ति १९८ ११९९ । गाथयोवृत्तौ, तथाहि'जइ पुण विआलपत्ता पए व पत्ता उवस्सयं ण लभे | सुन्नघरदेउले वा, उज्जाणे वा अपरिभोगे ।।१९८ ।। यदि पुनर्विकाल एव प्राप्तास्ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृतो दोषो न भवति, ‘पए व पत्त'त्ति प्रगे वा-प्रत्यूषस्येव प्राप्ताः, किन्तु उपाश्रयं न लभन्ते ततः क्व समुद्दिशन्तु शून्यगृहे देवकुले वा उद्याने वा अपरिभोगे-लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति ।। आवायचिलिमिणीए, रण्णे वा णिब्भए समुद्दिसणं । सभए पच्छन्नासइ, कमढगकुरुयाय संतरिया ।।१९९ ।। अथ शून्यगृहादौ सागरिकाणामापातो भवति, तत आपाते सति चिलिमिनीयवनीका दीयते 'रण्णे व त्ति अथ शून्यगृहादि सागारिकाक्रान्तं ततोऽरण्णे निर्भये समुद्दिशनं क्रियते सभयेऽरण्ये प्रच्छन्नस्य वा असति-अभावे ततो वसिमसमीप एव कमढकेषु शुक्लेन लेपेन सबाह्याभ्यन्तरेषु लिप्तेषु भुज्यते 'कुरुया यत्ति कुरूकुचा-पादप्रक्षालनादिका क्रियते सान्तराः-सावकाशा
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy