SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१० गच्छाचारपइण्णयं दृढचारित्रां मुक्तां आदेयां महत्तरां स गुणराशिम् । एकाकी अध्यापयति, सोऽनाचारः न स गच्छः ॥९४|| व्याख्या - 'दढचा०' अत्र चकारोऽप्यर्थस्तस्य प्रत्येकमभिसम्बन्धाद् दृढचारित्रामपि-स्थिरसंयमपरिणामामपि तथा मुक्तामपि-निर्लोभामपि तथा आदेयामपि-ग्राह्यवचनामपि तथा गुणराशिमपि-उक्तव्यतिरिक्तानेकगुणकलितामपि एवंविधां कामित्याह-'मयहरं'ति । ‘सीलत्था कयकरणा, कुलजा परिणामिया य गंभीरा । गच्छाणुमया वुडा, महत्तरत्तं लहइ अज्जा ।।१।।' इति गाथोक्तलक्षणां महत्तरामपि-गणिनीमपि किम्पुनरन्यां एकाकिनी साध्वीं यत्र गच्छे एकाकी साधुरध्यापयति, हे गौतम ! नपुंसकत्वस्य प्राकृतप्रभवत्वात् सोऽनाचारः स गच्छ इति | गाथाछन्दः ||९४।। घणगज्जियहयकुहए-विज्जूदुग्गिज्जगूढहिययाओ । अज्जा अवारियाओ, इत्थीरज्जं न तं गच्छं ।।९५ ।। घनगर्जितहयकुहकविद्युदुर्गाडगूढहृदयाः । आर्या अनिवारिता स्त्रीराज्यं न स गच्छः ॥९५॥ व्याख्या - ‘घणग' यत्र गच्छे आर्या 'अवारिआउत्ति अनिवारिताःअकृत्यं कुर्वन्त्यः तत्परिवर्त्तकेनानिषिद्धाः निरङ्कुशा इत्यर्थः वर्तन्ते, कथम्भूता आर्याः 'घणगज्जिए' त्यादि अत्र कुहकशब्देन धावतोऽश्वस्य उदरप्रदेशसमीपे सम्मूर्छितवायुविशेष उत्पद्यते स प्राच्यते । यत उक्तं 'परिशिष्टपर्वणि' श्रीहेमचन्द्रसूरिपादैः-'दध्यौ च स्वर्णकारोऽपि, चरितं योषितामहो । अश्वानां कुहकारावमिव को वेत्तुमीश्वरः ||१|| तथैकारो व्यत्ययनिर्देशश्चार्षत्वात् ततोऽयमर्थः, घनगजितहयकुहकवद्विद्युद्वच्च क्रमेण गूढं-मायाकरण्डत्वेनाऽकलनीयाशयं दुर्ग्राह्यं च-अस्थिरत्वेन ग्रहीतुमशक्याशयं हृदयं यासां तास्तथा सम्भवति चार्याणामपि कासाञ्चित्
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy