________________
२०९
गच्छाचारपइण्णयं
अतिदुर्लभभैषज्यं, बलबुद्धिविवर्धनमपि पुष्टिकरम् । आर्यालब्धं भुज्यते, का मेरा तत्र गच्छे ? ॥९२॥
व्याख्या - 'अइदु०' यत्र गणेऽपि शब्दस्य प्रति विशेषणं सम्बन्धात् अतिदुर्लभमपि - अतिशयेन दुष्प्राप्यमपि अत्र विभक्तिलोपः प्राकृतत्वात् समासो वा भैषज्यशब्देन सह तथा बलबुद्धिविवर्द्धनमपि तत्र बलं - शरीरसामर्थ्य बुद्धिः-मेधा तथा पुष्टिकरमपि शरीरोपचयकार्यपि भैषज्यं-औषधमार्यालब्धंसाध्व्यानीतं भुज्यते साधुभिरिति शेषः । हे गौतम! का मेरा का मर्यादा तत्र गच्छे ? न काचिदपीत्यर्थः, मेरेति मर्यादावाची देशीशब्द इति । गाथाछन्दः ।। ९२ । ।
I
एगो एगिथिए सद्धिं, जत्थ चिट्टिज्ज गोयमा ! | संजइए विसेसेण, निम्मेरं तं तु भासिमो । । ९३ ।। एक एकाकिस्त्रियाः सार्धं यत्र तिष्ठेत् गौतम ! | संयत्या विशेषेण, निर्मेरं तं तु भाषामहे ॥९३॥
व्याख्या - ‘एगो ए० ́ एकः - एकाकी साधुरेकाकिन्या स्त्रिया सार्धं हे गौतम ! यत्र तिष्ठेत्, तं गच्छं निर्मेरं-निर्मर्यादं भाषामहे वयं, संयत्या चैकाकिन्या एकाकी यत्र साधुस्तिष्ठेत् तं तु गच्छं विशेषेण निर्मेरं भाषामहे इति । अत्रैकाकिन्याः स्त्रिया साध्या च सार्धमेकाकिनः साधोर्यदेकत्र स्थानवर्ज्जनं तत्तेषामेकान्ते परस्परमङ्गप्रत्यङ्गादिदर्शनालापादिकरणतो दोषोत्पत्तिसम्भवात्, किञ्च प्रतीतमेवानेकान्तेऽपि श्रेणिकचिल्लणयो. रूपादिदर्शनेन श्रीमन्महावीरसाधुसाध्वीनां निदानकरणादिदोषोत्पत्तिः सञ्जातेति श्रीदशाश्रुतस्कन्धे तथोपलम्भादिति । अनुष्टुप्छन्दः ।। ९३ ।।
दढचारित्तं मुत्तं, आइज्जं मयहरं च गुणरासिं । इक्को अज्जावेई, तमणायारं न तं गच्छं । । ९४ ।।