________________
गच्छाचारपइण्णयं
____ २०८ लोभ्येत लोभिता चाकार्यमपि करोति, बहुमोहा च स्त्री, ततः पुरुषैः सह संलापं कुर्वन्त्या वस्त्राणि गृह्णन्त्याश्च तस्या पुरुषसम्पर्कतो मोहो दीप्यते, उदाररूपां वा संयतीं दृष्ट्वा कार्मणादिना काश्चिद्वशी कुर्यात्, वशीकृता च चारित्रविराधनां करोति, तस्मान्निम्रन्थीभिर्गृहस्थेभ्यः स्वयं वस्त्राणि न ग्राह्याणि, किन्तु तासां तानि गणधरेण दातव्यानि । तत्रायं विधिः-संयती प्रायोग्यमुपधिमुत्पाद्य सप्तदिनानि स्थापयति, ततः कल्पं कृत्वा स्थविरं स्थविरां वा परिधापयति, यदि नास्ति विकारस्ततः सुन्दरं, एवं (परीक्षा कृत्वा ददाति) परीक्षामकृत्वा यदि ददाति तदा चतुर्गुरुकं, तञ्च परीक्षितमुपधिमाचार्यो गणिन्याः प्रयच्छति, गणिनी च संयतीनां विधिना ददाति । अथाचार्यः स्वयं तासां ददाति तदा चतुर्गुरुकम्, यतः काचिन्मन्दधर्मा भणेदस्याश्चोक्षतरं दत्तं एषाऽस्येष्टा यौवनस्था च एवमस्थाने स्थापयति तस्मादाचार्येण प्रवर्त्तिन्या एव दातव्यमित्यादि । एतच्च निशीथपञ्चदशोद्देशकचूर्णावपि सविस्तरमस्तीति । अत्रोच्यते यदुक्तं भवता तत्सत्यं परं सम्भवत्येव श्रमणाभावादौ आर्या लब्धत्वमुपकरणस्य श्रमणासम्भवादौ निर्ग्रन्थीनामपि स्थविरादिक्रमेण स्वयमेव वस्त्रग्रहणस्यानुज्ञानात्, उक्तञ्च-निशीथपञ्चदशोद्देशकचूर्णावेव यथा-'चोदग आह-यद्येवं सूत्रस्य नैरर्थक्यं प्रसज्यते आयरिओ आह-असइसमणाण चोअग, जायंति निमंतवत्थ तह चेव । जायंति थेरि असती, व मीसगा मोत्तिमे ठाणे 11१।। हे चोदक ! समणाणं असति थेरिआओ वत्थे जायंति निमंतणे वत्थं वा गेह्णति जहा साहू तहा ताओ वि थेरीणं असति तरुणि व तम्मिस्साओ जायंति इमे ठाणे मोत्तु मित्यादि । अत्र वस्त्रग्रहणवत्पात्रग्रहणमनुक्तमपि श्रमणाभावादावनुज्ञातं सम्भाव्यते' इति । गाथाछन्दः ।।९१।।
अइदुल्लहभेसज्जं, बलबुद्धिविवड्डणंपि पुद्धिकरं । अज्जालद्धं भुज्जइ, का मेरा तत्थ गच्छम्मि ।।९२ ।।