________________
२०७
गच्छाचारपइण्णयं घेत्तुं घसिऊण विसणिग्घायणट्ठा तस्स पाणं दिज्जति, अतो गिलाणट्ठा उरालियग्गहणं भवेज्ज त्ति' एवंविधेऽपि ते साधुः 'निमिसखणद्धं पित्ति निमेषस्य क्षणो-अवसरो वेलेति यावत्तस्यार्द्ध निमेषक्षणार्द्ध निमेषवेलार्द्धमित्यर्थः, तदपि यावत्कार्यकरणानन्तरं कौतुकमोहादिना हस्तेन-करेण न स्पृशेत् 'तं गच्छंति हे गौतम ! स गच्छ: स्यादिति । गाथाछन्दः ।।९० ।। अथ वृत्तषट्केन पुनरप्यार्या अधिकृत्य प्रस्तुतमेवाविःकरोति- .
जत्थ य अज्जालद्धं, पडिगहमाईवि विविहमुवगरणं । परिभुज्जइ साहूहिं, तं गोयम ! केरिसं गच्छं ।।९१।। यत्र चार्यालब्धं, पतद्ग्रहाद्यपि विविधमुपकरणम् । परिभुज्यते साधुभिः स गौतम ! कीदृशो गच्छ: ? ॥९१॥
व्याख्या - ‘जत्थ य० यत्र च गणे आर्यालब्धं-साध्वीप्राप्तं पतद्ग्रहादिकं विविधमुपकरणमपि किं पुनराहारादिकमित्यपि शब्दार्थः, कारणं विना साधुभिः परिभुज्यते हे गौतम ! स कीदृशो गच्छ: ? न कीदृशोऽपीति, नन्वत्र आर्यालब्धत्वं पतद्ग्रहाद्युपकरणस्य कथं सम्भवति, आर्याणां गृहस्थसकाशात् स्वयं वस्त्रपात्रग्रहणस्यैव निषेधात्, ग्रहणे च प्रायश्चित्तमनेके दोषाश्च । उक्तञ्च-यतिजीतकल्पप्रकरणे ‘गुरुउवहिअपडिलेहे, छप्पइअअसोहिकंमि तदग्गहणे । लहुया गुरुगज्जाणं, सयमेव य वत्थपायगहे ||१||' अस्याः किञ्चिदूनपश्चार्द्धवृत्तिलेशो यथा-'आर्याणां संयतीनां गृहस्थसकाशात् स्वयमेव वस्त्रपात्रग्रहणे चतुर्गुरुकाः, यतः-संयतीनां गृहस्थेभ्यः स्वयमेव वस्त्रादिग्रहणेऽनेकदोषाः सम्भवन्ति । तथाहि-संयती गृहस्थाद्वस्त्राणि गृह्णन्ती दृष्ट्वा कोऽप्यभिनवश्राद्धो मिथ्यात्वं गच्छेत्, निर्ग्रन्थ्योऽपि भाटिं गृह्णन्तीति शङ्कते वा, गृहस्थो वा वस्त्राणि दत्वा मैथुनमवभाषेत, प्रतिषिद्धे चैषा मे वस्त्राणि गृहीत्वा उक्तं न करोतीत्युड्डाहं कुर्यात्, स्त्री च स्वभावेनाल्पसत्त्वा ततो येन तेन वा वस्त्रादिनाऽल्पेनापि