SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं ___ २०६ चाउम्मासियं परिहारट्ठाणं अणुग्घातियं । जे भिक्खू वा भिक्खुणी वा अयबंधणाणि वा कंसबंधणाणि वा जाव वइरबंधणाणि वा करेइ करेंतं वा साइज्जइ, जाव परिभुजंतं वा साइज्जइ, तस्स वि पुवपच्छित्तं । तथैतन्निषेधः श्रीआचाराङ्गसूत्रद्वितीयश्रुतस्कन्धषष्ठाध्ययनप्रथमोद्देशके-ऽप्यस्ति तथा शयनानां-मञ्चकादीनां आसनानाञ्च-मञ्चिकादीनां कथम्भूतानां 'झुसिराणं'ति शुषिराणां-सच्छिद्राणां सम्यक्प्रत्युपेक्षितुम-शक्यानामित्यर्थः, चैवशब्दात् तथाविधानां तूलिकागुप्तदवरक-शीर्षोपधानगल्लमसूरिकाचक्कलकगब्दिकादीनां परिग्रहः परिभोगो-व्यापारणं क्रियत इति शेषः । तथा यत्र च गच्छे 'वारडियाणं'ति रक्तवस्त्राणां 'तत्तडियाणं ति नीलपीतादिरङ्गितवस्त्राणाञ्च परिभोगः क्रियते किं कृत्वेत्याह-मुक्त्वापरित्यज्य किं शुक्लवस्त्रं यतियोग्याम्बरमित्यर्थः, तत्र गच्छे का मेरेतिका मर्यादा न काचिदपीति । द्वे अपि गाथाछन्दसी ।।८८ ।।८९ ।। वस्त्रादिभ्यः स्वर्णादिकं बबनर्थकारीत्यतस्तद्विशेषयन्नाह जत्थ हिरण्णसुवण्णं, हत्थेण पराणगंपि नो छिप्पे । कारणसमप्पियं पि हु निमिसखणद्धपि तं गच्छं ।।९० ।। यत्र हिरण्यसुवर्णे हस्तेन परकीयेऽपि न स्पृशेत् । कारणसमपितेऽपि हु निमेषक्षणार्धं स गच्छः ॥१०॥ व्याख्या-'जत्थे 'त्ति यत्र गच्छे हिरण्यसुवर्णे ‘पराणगंपित्ति अपेरेवकारार्थत्वात् परकीये एव नत्वात्मीये यतेस्तयोरसम्भवात् कथम्भूते 'कारणसमप्पिअं पि हुत्ति हु-निश्चितं कारणे ग्लानत्वविषग्रस्तत्वादिके केनाप्यगारिणा समर्पितेऽपि किं पुनरसमर्पिते इत्यपि शब्दार्थः, अस्ति च साधोरपि कारणे हिरण्यसुवर्णयोर्ग्रहणसम्भवः, यत उक्तं-निशीथपीठे परिग्रहप्रतिसेवनाधिकारे यथा-'गिलाणमंगीकृत्य वेज्जद्वताय हिरण्णंपि गेणेज्जा उरालस्यापवादः, विसे कणगं ति विषग्रस्तस्य कनकंसुवर्णं तं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy