SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं व्याख्या - हे भगवन् ! - परमैश्वर्यादिसमन्वित कैर्लिङ्गः-चिन्हैरुन्मार्गप्रस्थितं-असन्मार्गस्थितं सूरिं-आचार्य, छाद्यते केवलज्ञानं केवलदर्शनं चात्मनोऽनेनेति छद्म तत्र तिष्ठतीति छद्मस्थो, विजानीयात्-परीक्षेतेति परप्रश्ने गुरुराह-हे मुने ! यैश्चिन्हैराचार्यमुन्मार्गप्रस्थितं छद्मस्थः परीक्षेत, तत् मे-मम कथयत इति शेषः । 'निसामय' त्ति त्वं निशामया-ऽऽकर्णयेति, अनुष्टुप् छन्दः ।।९।। अथ वृत्तद्वयेन पूर्वोक्तशिष्यप्रश्नोत्तर-मेवाह सच्छंदयारिं दुस्सीलं, आरंभे सुपवत्तयं । पीढयाइ पडिबद्धं, आउक्कायविहिंसगं ।।१०।। स्वच्छन्दचारिणं दुःशीलमारम्भेषु प्रवर्तकम् । पाठकादिप्रतिबद्धं, अप्कायविहिंसकम् ॥१०॥ मूलुत्तरगुणब्भटुं, सामायारीविराहयं । अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ।।११।। मूलोत्तरगुणभ्रष्टं, सामाचारीविराधकम् । अदत्तालोचनं नित्यं, नित्यं विकथापरायणम् ॥११॥ अनयोर्व्याख्या-स्वच्छन्देन-स्वाभिप्रायेण न तु जिनाज्ञया चरतीति स्वच्छन्दचारी तं, तथा दुष्टं शीलं-आचारो यस्य स दुःशीलस्तं, तथाऽऽरम्भाः-पृथिव्याधुद्रवणानि उपलक्षणत्वात् संरम्भसमारम्भावपि, तत्र संरम्भः-सङ्कल्पः, समारम्भस्तु-परितापकरः, उक्तञ्च-'संकप्पो संरंभो, परितावकरो भवे समारंभो । आरंभो उद्दवओ, सुद्धनयाणं तु सव्वेसिं ||१|| तत्र स्वान्ययोः प्रवर्तकस्तं, तथा पीठकंफलकमादिशब्दात्पट्टिकादयस्तूत्र प्रतिबद्धः कारणं विनापि ऋतुबद्धकाले तत्परिभोजीत्यर्थस्तं, ऋतुबद्धकाले च पीठकादिग्रहणे महान् दोषः, उक्तं च-'जे भिक्खू उडुबद्धियं सेज्जासंथारयं परं पज्जोसवणाओ उवाइणेइ उवाइणितं वा साइज्जइ'
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy