SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं मेथिरालम्बनं स्तम्भो दृष्टिर्यानं सूत्तमम् । सूरिर्यस्माद्भवति गच्छस्य तस्मात्तं तु (एव) परीक्षेत ॥८॥ व्याख्या - यद्यस्मात्कारणात्सूरिः-सदाचार्यो गच्छस्य-गणस्य 'मेढि' त्ति मेथिः-खले गोबन्धस्थूणा तत्समानो भवति । यथाऽनया बद्धानि पशुवृन्दानि मर्यादया प्रवर्त्तन्ते तथाऽऽचार्यमेथीबद्धो गच्छोऽपि मर्यादया प्रवर्तत इत्यर्थः, तथाऽऽलम्बनंहस्ताद्याधारस्तत्समानः यथा हस्ताद्याधारो गर्तादौ पतज्जन्तुं धारयति तथाऽऽचार्योऽपि भवगर्ते पतन्तं गच्छं धारयतीत्यर्थः, तथा 'खंभ' ति स्तम्भः-स्थूणा अत्र नपुंसकत्वं प्राकृतत्वादेव तत्समानः यथा स्तम्भः प्रासादाधारः स्यात् तथाऽऽचार्योऽपि गच्छप्रासादाधारः, तथा 'दिहि'त्ति दृष्टि-नेत्रं तत्समानः यथा जन्तोर्नेत्रं शुभाशुभवस्तुप्रदर्शकं भवति तथाऽऽचार्योऽपि गच्छस्य भाविशुभाशुभप्रदर्शक: स्यात्, तथा 'जाणं सुउत्तमं ति यानं-यानपात्रं सूत्तमंअतिप्रधानमच्छिद्रमित्यर्थः, तत्समानो यथाऽच्छिद्रं यानपात्रं समुद्रतीरं नयति जन्तून्, तथाऽऽचार्योऽपि गच्छं भवतीरं नयति तस्मात्प्रथमं, 'तं तु' त्ति तोरेवकारार्थत्वात् तमेवाचार्यमेव परीक्षेत गच्छपरीक्षामिच्छुस्सुधीरिति अनुष्टुप् छन्दः ||८|| एवं चात्र ग्रन्थे त्रयोऽधिकाराः सूचिताः तद्यथाआचार्यस्वरूपाधिकारः १ साधुस्वरूपाधिकारः २ साध्वीस्वरूपाधिकारश्च ३ । तत्र प्रथममाचार्यस्वरूपाधिकारं निरुपयितुकामः कैश्चिन्हैश्छद्मस्थ उन्मार्गप्रस्थितमाचार्य परीक्षेतेति प्रश्नयन्नाह भयवं केहि लिंगेहि, सूरि उम्मग्गपट्ठियं । वियाणिज्जा छउमत्थे, मुणी तं मे निसामय ।।९।। भगवन् ! कैलिङ्गैः, सूरिमुन्मार्गप्रस्थितम् । विजानीयात् छद्मस्थः, मुने! तन्मे निशामय ॥९॥
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy