________________
गच्छाचारपइण्णयं
वीरिएणं तु जीवस्स, समुच्छलिएण गोअमा । जम्मंतरकए पावे, पाणी मुहुत्तेण निद्दहे ।।६।। वीर्येण तु जीवस्य समुच्छलितेन गौतम ! जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्दहेत् ॥६॥
व्याख्या-जीवस्य-जन्तो (तोः) वीर्येण तु समुच्छलितेन हे गौतम ! जन्मान्तरकृतानि पापानि प्राणी-स एव जन्तुर्मुहूर्त्तमात्रेण निर्दहेत्-ज्वालयेत्, अर्हन्नकवदिति, विषमाक्षरेति गाथाछन्दः ||६|| यस्मादेवं तस्मात्किं कर्त्तव्यमित्याह
तम्हा निउणं निहालेउं, गच्छं सम्मग्गपट्टि । वसिज्ज तत्थ आजम्म, गोअमा ! संजए मुणी ।।७।। तस्मान्निपुणं निभाल्य, गच्छं सन्मार्गप्रस्थितम् । .. वसेत्तत्र आजन्म गौतम ! संयतो मुनिः ॥७॥
व्याख्या-यस्मात् सद्गणे एते गुणास्तस्मान्निपुणं निभाल्य-सम्यक् परीक्ष्य, गच्छं सन्मार्गप्रस्थितं, तत्र वसेत्-निवासं कुर्यात् । आजन्मजीवितकालमभिव्याप्य यावज्जीवमित्यर्थः, हे गौतम ! संयतः सत्क्रियावान् मुनिः-साधुरिति, विषमाक्षरेति गाथाछन्दः [७ || सम्यक् परीक्ष्य सद्गणे वसेदित्यनन्तरमुक्तं, तत्र गणस्य बहुव्रतिव्रतिनीसमुदायात्मकस्य प्रत्येकं परीक्षाकर्तुं न शक्यते । अथाचार्ये च परीक्षिते प्रायोगणोऽपि परीक्षित एव, मेढ्यादिसमानत्वेन तत्प्रवर्तकत्वादाचार्यस्य, गणस्य च तदनुवर्तित्वादित्यतः प्रथममाचार्यमेव परीक्षेतेत्याह
मेढी आलंबणं खंभे, दिट्ठी जाणं सुउत्तमं । सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ।।८।।