SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य । पश्यतः अन्येषां महानुभागानां साधूनाम् ॥४॥ उज्जमं सव्वथामेसु, घोरवीरतवाइअं । लज्जं संकं अइक्कम्म, तस्स वीरिअं समुच्छले ।।५।। उद्यमं सर्वस्थामेषु, घोरवीरतपादिकं । लज्जां शङ्कामतिक्रम्य, तस्य वीर्यं समुच्छलेत् ।।५।। गाथात्रयव्याख्या-यामार्द्ध-चतुर्घटिकं, याम-प्रहरं, दिन अहोरात्रं, अत्र पदत्रयेऽपि विभक्तिलोपः प्राकृतत्वात्, समाहारद्वन्द्वो वा चतुर्णां पदानां, पक्षं-पञ्चदशदिनात्मकं, मासं-पक्षद्वयात्मकं, संवत्सरं-द्वादशमासात्मकं, अपिशब्दावर्षद्वयादिकं यावत् वा शब्दो विकल्पार्थः, सन्मार्गप्रस्थितेआपगमोक्तमार्गप्रवृत्ते गणे संवसतो-निवासं कुर्वाणस्य जन्तोरिति शेषः, हे गौतम ! कंथम्भूतस्य लीलया अलसायमानस्य अनलसोऽलसो भवतीति अलसायते अलसायते इति अलसायमानस्तस्य, अत्र डाच् ‘लोहितादिभ्यः' षिदिति सूत्रेण लोहितादेराकृतिगणत्वात् डार्थे क्यङ् ष् प्रत्ययः । निरुत्साहस्य-निरुद्यमस्य 'वीमणं' ति षष्ठ्यर्थे द्वितीया । विमनस्कस्यशुन्यचित्तस्य 'पिक्खविक्खइ' त्ति पश्यतः अन्येषां महानुभागानां महाप्रभावाणां साधूनां, उद्यम-अनालस्यं सर्वस्थामेसु-सर्वक्रियासु, कथंभूतमुद्यमं? 'घोरवीरतवाइअं ति घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वात्, 'वीर' त्ति वीरे भवं वैरं वीरैः साध्यमानत्वादेवंविधं तप आदिर्यत्र तं आदिशब्दाद्वैयावृत्त्यादिकं लज्जां-व्रीडां शङ्कां-जिनोक्ते संशयरूपामतिक्रम्य-परित्यज्य स्थितस्येति शेषः, तस्य सुखशीलत्वादिदोषयुक्तस्यापि वीर्यप्रधानधर्मानुष्ठानकरणोत्साहरूपं समुच्छलेत्-प्रादुर्भवेत्, सोऽपि जिनोक्तमोक्षमार्गक्रियां कुर्यादित्यर्थः, षष्ठाङ्गोक्तशैलकाचार्यवदिति, त्रीण्यपि विषमाक्षरेति गाथाछन्दांसि ||३||४|५|| अथ वीर्योच्छलने किं फलमित्याह
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy