________________
गच्छाचारपइण्णयं प्रकीर्णकसहस्राणि अभवन् । प्रत्येकबुद्धा अपि तावन्त एव । अत्रैको व्याचक्षते । इह एकैकस्य तीर्थकृतः तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात्। स्यादेतत्प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनम्, यतःप्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थः-'इह तित्शे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भाणियव्वं, कम्हा जम्हा पइण्णगपरिमाणेण चे पत्तेयबुद्धपरिमाणं कीरइ, भणियं 'पत्तेयबुद्धावि तत्तिया चेव' त्ति । चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ? आयरिओ आहतित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवन्तीति । अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात्प्रत्येकबुद्धानामत्राभिधानम्, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति 'सेत' मित्यादि तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति । इदमपि गाथाछन्दः । परं तल्लक्षणं चेदम्- 'विषमाक्षरपादं वा, पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र, गाथेति तत्सूरिभिः प्रोक्तमिति ||१||' (वृत्तरत्नाकरपञ्चमाध्याये) ।।२।। अथ गाथात्रयेण सदाचारगच्छसंवासे गुणानाह |
जामद्धजामदिणपक्खं, मासं संवच्छरंपि वा ।। सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोअमा ।।३।। यामाधू यामं दिनं पक्ष, मासं संवत्सरमपि वा। सन्मार्गप्रस्थिते गच्छे, संवसमानस्य गौतम ! ॥३॥ लीलाअलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविक्खइ अन्नेसिं, महाणुभागाण साहुणं ।।४।।