________________
२०१
गच्छाचारपइण्णय कारयेत्, तत्रापि प्रथमं मातृभगिन्यादिबिर्नालबद्धाभिस्तदभावे असम्बन्धिनीभिरपि स्थविरामध्यमातरुणीभिर्यथाक्रमं कारयेत् कथं पुनस्तया कण्टक उद्धरणीय इत्याह-।।१४।। सल्लुद्धरणक्खेण व, अस्थि व वत्थंतरं व इत्थीसु । भूमीकट्ठतलोरुसु, काऊण सुसंवुडा दोवि ।।१५।। शल्योद्धरणेन 'नक्खेण वत्ति नखहरणिकया वा पादमसंस्पृशन्ती कण्टकमुद्धरति, अथैवं न शक्यते ततो वस्त्रान्तरितं पादं भूमौ कृत्वा यद्वा काष्ठे वा तले वा ऊरौ वा कृत्वा उद्धरेत् द्वावपि च संयतीसंयतौ सुसंवृतावुपविशतः | एष स्त्रीषु कण्टकमुद्धरन्तीषु विधिरवगन्तव्यः ||१५|| एमेव य अच्छिंमी, चंपादिढं तु नवरि णाणत्तं । निग्गंथीण तहेव य, णवरिं तु असंवुडा काई ||१६ || यथा कण्टकोद्धरणसूत्रे उत्सर्गतोऽपवादतश्चोक्तमेवमेव चाक्षिसूत्रेऽपि सर्वमपि वक्तव्यम्, नवरं नानात्वं चम्पादृष्टान्तोऽत्र भवति, यथाकिल चम्पायां सुभद्रया तस्य साधोश्चक्षुषि पतितं तृणमपनीतम्, तथान्यस्य साधोश्चक्षुषि प्रविष्टस्य तृणादेः कारणे निर्ग्रन्थ्या अपनयनं सम्भवतीति दृष्टान्तभावार्थः । निर्ग्रन्थीनामपि सूत्रद्वयं तथैव वक्तव्यम्, नवरं काचिदसंवृता भवति, ततः प्रतिगमनादयो दोषा भवेयुः । द्वितीयपदे निर्ग्रन्थस्तासां प्रागुक्तविधिना कण्टकादिकमुद्धरेदित्यादि । यच्चायमर्थोऽत्र ग्रन्थे न दर्शितः, तत् एतस्य सूत्रस्य श्रीमहानिशीथादिभ्य उद्धृतत्वादिना महानिशीथवत् प्राय १ उत्सर्गोत्सर्गादिविधेः प्रदर्शकत्वादिति वृद्धाः, अन्यथा वा यथासम्प्रदायमियं गाथा व्याख्येया आगमविचारणाचारुचातुरीचञ्चुभिरिति । गाथाछन्दः ||८६।।
मूलगुणेहि विमुक्कं, बहुगुणकलियं पि लद्धिसंपन्नं । उत्तमकुलेवि जायं, निद्धाडिज्जइ तयं गच्छं ।।८७ ।। मूलगुणैर्विमुक्तो, बहुगुणकलितोऽपि लब्धिसम्पन्नः । उत्तमकुलेऽपि जातो, निर्धाटयते स गच्छः ॥८७॥