________________
गच्छाचारपइण्णयं
२००
त्रिविधाः स्थविरा मध्यमाः तरुण्यश्च तत्र प्रथमं स्थविरया ततो मध्यमया ततस्तरुण्यापि कारयितव्यम् । अगाढे कारणे कुशलाभ्यां द्वाभ्यामपि कण्टकोद्धरणं कर्त्तव्यं-कारयितव्यमित्यर्थः ।।११।। के पुनस्ते द्वे इत्याहगिहि अण्णतित्थिपुरिसा, इत्थोवि य गिहिणि अण्णतित्थोया । संबंधि ईतरा वा, वइणी एमेव दो एते ।।१२।। गृहस्था पुरुषोऽन्यतीर्थिकपुरुषश्चेति द्वयं गृहस्था अन्यतीर्थिकी चेति वा द्वयं सम्बन्धिनी इतरा वा असम्बन्धिनी व्रतिनी एवं वा द्वयं एतेषां द्विकानामन्यतरेण कुशलेनागाढे कारणे कारयितव्यम् ।।१२।। आह श्रमणानामभावे सूत्रनिपातो भवतीत्युक्तं, कदा पुनरसौ साधूनामभावो भवतीत्याह तं पुण सुण्णारण्णे दुद्वारण्णे व अकुसलेहिं वा । कुसले वा दूरत्थे ण वएइ पदंपि गंतुं जे ||१३|| साधवो न भवन्तीति यदुक्तं तत्पुनरित्थं सम्भवति शून्यारण्यं ग्रामादिभिर्विरहिताटवी दुष्टारण्यं वा व्याघ्रसिंहादिभयाकुलं एतयोः साधूनामभावो भवेत् उपलक्षणत्वादशिवादिभिः कारणैरेकाकी सञ्जात इत्यपि गृह्यते एषा साधूनामसदसत्ता सदसत्ता तु सन्ति साधवः परमकुशलाः- कण्टकोद्धरणे अदक्षा अथवा यः कुशलः स दूरस्थो - दूरे वर्त्तते स च कण्टकविद्धपादः पदमपि गन्तुं न शक्नोति । ततः पूर्वोक्ता यतना कर्त्तव्या ।।१३।। अथ सामान्येन यतनामाह-परपक्खपुरिसगिहिणी, असोयकुसलाण मोत्तु पडिवक्खं । पुरिसजयंतमणुण्णे, होंति सपक्खेतरावत्ते || १४ || इह प्रथमं पश्चर्द्धं व्याख्याय ततः पूर्वार्द्धं व्याख्यास्यते । ये यतमानाः- संविग्नाः साम्भोगिकाः पुरुषास्तैः प्रथमं कारयेत् तदभावे अमनोज्ञैः असाम्भोगिकैस्तदभावे ये इतरे पार्श्वस्थादयस्तैर्वा कारयेत्, एषा स्वपक्षे यतना भणिता, अथैष स्वपक्षो न प्राप्यते ततः ‘परपक्खे' त्यादिपूर्वार्द्धं परपक्षे गृहस्थान्यतीर्थिकरूपे प्रथमं पुरुषैस्ततो गेहिनीभिरपि कारयेत्, तत्राप्यशौचवादिभिः कुशलैश्च कारापणीयं, अत एवाह-अशौचवादिकुशलानां प्रतिपक्षा ये शौचवादिनोऽकुशलाश्च तान्मुक्त्वा कारयितव्यम्, अथैतेऽपि न प्राप्यन्ते तदा संयतीभिरपि