________________
गच्छाचारपइण्णयं कारयतः पश्चात्कर्म भवति न पूर्वोक्तदोषा अतः श्रमणैः श्रमणानां कण्टकोद्धरणं कर्त्तव्यम् ||८ || अत्र पर आह-एवं सुतं अफलं, सुत्तनिवातो तु असति समणाणं । गिहि १ अण्णतित्थि २ गिहिणी ३-परउत्थिगिणी तिविहभेदो ।।९।। यदि संयतीभिः न कारयितव्यम् तत एवं सूत्रमफलं प्राप्नोति, सूरिराह-सूत्रनिपातः श्रमणानामभावे मन्तव्यः । तत्र च प्रथम गृहिभिः कण्टकोद्धरणं कारणीयम्, तदभावेऽन्यतीर्थिकैस्तदप्राप्तौ गृहस्थाभिस्तदभावे परतीर्थिकाभिरपि कारयितव्यम्, एषु च प्रत्येकं त्रिविधो भेदः, तद्यथा-गृहस्थः त्रिविधः पश्चात्कृतः श्रावको यथा भद्रकश्च, एवं परतीर्थिकोऽपि त्रिधा मन्तव्यः, गृहस्था परतीर्थिकी च त्रिविधा स्थविरा मध्यमा तरुणी भवति, तत्तत्र गृहस्थेन कारयन् प्रथमं पश्चात्कृतेन ततः श्रावकेण ततो यथा भद्रकेणापि कारयति, स च कण्टकाकर्षणानन्तरं प्रज्ञापनीयो मा हस्तप्रक्षालनं कार्षीः, एवमुक्ते यद्यसौ अशौचवादी तदा हस्तं हस्तेनैव पोञ्छति प्रस्फोटयति वा । अथ शौचवादी ततः ।।९।। जतिसीसम्मि न पुंछति, तणुपोत्तेसु व न वावि पप्फोडे । तो से अन्नेसिंऽसति, दवं दलंती उ मा दगं घाते ||१०|| शौचवादी यदि हस्तं शीर्षे वा तनौ वा पोतेषु वा वस्त्रेषु न पोञ्छति न वा प्रस्फोटयति गृहे गतो हस्तं प्रक्षालयिष्यामीति कृत्वा ततः ‘से' तस्य अन्येषामशौचवादिनामसत्यभावे प्रासुकमात्मीयद्रवं हस्तधावनाय ददति मा शौचवादितया गृहगतः सन् दकं-अप्कायं घातयेदिति कृत्वा हन्त्यर्थाश्चेति वचनादत्र चौरादिको हन्धातुरवगन्तव्य इति ।।१०।। तथा गृहस्थानामभावे परतीर्थिकेनापि कारयन्नेवमेव पश्चात्कृतादिक्रमेण कारयेत् तेषामभावे गृहस्थाभिरपि कारयेत् । कथमित्याह-माया भगिणी धूया, अज्जियणत्तीयसेसतिविहाओ । आगाढिकारणंमी, कुसलेहिं दोहि कायव्वं ।।११।। या तस्य निर्ग्रन्थस्य माता भगिनी दुहिता आर्यिका वा-पितामही नप्तृका वा-पौत्री तया कारयितव्यम्, एतासामभावे याः शेषा अनालबद्धाः स्त्रियस्ताभिरपि कारयेत्, ताश्च