________________
१९३
गच्छाचारपइण्णयं अप्राप्तयौवनाया अपि किं पुनः प्राप्तयौवनायाः, वृद्धाया अपिअतिक्रान्तयौवनाया अपि किं पुनरनतिक्रान्तयौवनायाः, एवंविधायाः कस्या इत्याह-नप्तका-पौत्री तस्या अपि, दुहिता-पुत्री तस्या अपि, अथवा भगिनीस्वसा तस्या अपि, नालबद्धोपलक्षणत्वादस्य दौहित्रीभ्रातृजाजामेयीपितृष्वसृमातृष्वसृजननीमातामहीपितामहीग्रहः कोऽर्थः ? नप्तृकादिकानामेकादशानां नालबद्धानामपि स्त्रीणां किं पुनरनालबद्धानां तनुस्पर्शः उपलक्षणत्वात् सविलासशब्दश्रवणादि च यत्र गच्छे न च नैव क्रियते, हे गौतम ! स गच्छो भणित इति । इह हि सम्बन्धिन्या अपि स्त्रिया अङ्गस्पर्शादिवर्ज़नं स्त्रीस्पर्शस्योत्कटमोहोदयहेतुत्वात् । यत उक्तं-श्रीनिशीथचूर्णिपञ्चदशोद्देशके प्रलम्बाधिकारे 'रसगन्धगाहा । इट्ठरसगन्धे पडुच्च इत्थीपुरिसाण तुल्लो मोहुदओ | जहा निद्धाइरसेण पुरिसस्स इंदिआ चलिज्जति तहा इत्थिआए वि १ । तहा चंदणाइ गंधेण वि २ सेसेसु सद्दरूवफासेसु दुपक्खेवि त्ति । इत्थिपक्खे पुरिसपक्खे अ भयणा कायव्वा, जहा पुरिसफासेणं पुरिसस्स मोहोदयो होज्जा वा ण वा, जइ होज्जा तो मंदो पाएण, ण जारिसो इत्थिफासेणं उक्कडो भवति, इत्थिफासेणं पुण पुरिसस्स णियमा भवति मोहोदओ उक्कडो य । एवं इत्थीए इत्थिफासे भयणा, इत्थीए पुरिसफासेण उदयो णियमा ३ । एवं इटुंपि सदं सोउं पुरिसस्स पुरिससई सोउं भयणा, इत्थिसद्दे मोहोदआ एवं इत्थीए भाणियब्वं ४ । एवं रूवं पि इ8 जीवसहगयं चित्तकम्मादिपडिमाओ वा दह्युमिति ५ । तत्र स्पर्शविषये निशीथचूय॒कादशोद्देशकाष्टमोद्देशकगते क्रमेण राजपुत्रसुकुमारिकोदाहरणे लिख्यते । यथा-आणंदपुरं नगरं, जितारो राया, वीसत्था भारिया, तस्स पुत्तो अणंगो नाम, बालत्ते अच्छिरोगेण गहिओ, निच्चं रुयंतो अच्छति । अन्नया जणणीए णिगिन्नट्टियाए अहाभावेण जाणूरुअंतरे छोढुं उवगूहिओ। दोवि तेसिं गुज्झापरोप्परं समफिडिया ताहेव तुण्हिक्को ठिओ, लद्धोवाओ, रुयंतं पुणो पुणो तहेव करेइ, ठायति रुयंतो, पवड्डमाणो तत्थेव गिद्धो