________________
गच्छाचारपइण्णयं
__ १९२ उवंग ९ रिसिभासियाणं १० दसनिज्जुत्तीओ काऊण जिणसासणं पभाविऊण पंचमसुयकेवलिपयमणुहविऊण य समए अणसणविहाणेणं तियसावासं पत्तो त्ति ।। इति वराहमिहिरसम्बन्धः । स गच्छः स्यादिति शेषः । गाथाछन्दः || हासं खेडा कंदप्पेत्यत्र बाहुल्येन संयुक्तपकारपाठो दृश्यते तत्पाठे तु तृतीयगणस्य पञ्चमात्रत्वेन गाथान्तरमेव ।।८२।। अथ गाथापञ्चकेन स्त्रीकरस्पर्शादिकमधिकृत्य प्रस्तुतमेवोद्भावयति
जत्थित्थीकरफरिसं, अंतरियं कारणे वि उप्पन्ने । दिट्ठीविसदित्तग्गीविसं व वज्जिज्जए गच्छे ।।८३।। यत्र स्त्रीकरस्पर्शमन्तरितं कारणेऽपि उत्पन्ने दृष्टिविषदीप्ताग्निविषमिव वर्जयेत् गच्छे ।।८।।
व्याख्या - यत्र गणे स्त्रीकरस्पर्श-स्त्रियाः करस्पर्शोऽथवा स्त्रियाः करेण स्पर्शः स्त्रीकरस्पर्शः तं, उपलक्षणत्वात् स्त्रीपादादिस्पर्श च, कथंभूतं 'अतंरिति अपिशब्दस्येहापि सम्बन्धात् । अन्तरितमपि-वस्त्रादिना जातान्तरमपि किं पुनरनन्तरितं, कारणेऽपि-कण्टकरोगोन्मत्तत्वादिके उत्पन्ने सञ्जाते सति किं पुनरकारणे दृष्टिविषश्च-सर्पविशेषः दीप्ताग्निश्चज्वलितवह्विः विषं च-हालाहलादीति समाहाग्द्वन्द्वः, तदिव वर्जयेत्उत्सर्गमार्गेण दूरतस्त्यजेत् मुनिसमुदायः 'गच्छे'त्ति स गच्छ: स्यादिति शेषः । गाथाछन्दः ।।८३।।
बालाए वुड्डाए, नत्तुअदुहियाइ अहव भइणीए । न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं ।।८४ ।। बालाया वृद्धाया नप्तृकाया दुहिताया अथवा भगिन्याः । न च क्रियते तनुस्पर्शः, गौतम ! गच्छ: सको भणितः ॥८४॥ व्याख्या - इहापेर्गम्यमानस्य सर्वत्र सम्बन्धात् बालाया अपि