________________
गच्छाचारपइण्णयं
१८६ प्रेक्ष्य साऽवधेः । नैच्छन्मामेष तच्छिद्राणीक्षते न त्ववैक्षत ।।७।। समानवयसोऽवोचन् हसन्तस्तं च साधवः । त्वमर्हन्मित्र ! धन्योऽसि यच्छुनीमर्कटीप्रियः ||८ ।। अन्यदा क्रमलचं स जलवाहं विलयितुम् । प्रमादाद् गतिभेदेन पदं प्रासारयन् मुनिः ।।९।। तस्य तच्छिद्रमासाद्य सा चिच्छेदांह्रिमूरुतः । स मिथ्यादुष्कृतं जल्पन् न्यपतत्तज्जलाबहिः ।।१०।। सम्यग्दृष्टिसुरी तां च निर्धाट्य तं मुनेः क्रमम् । तदैवालगयद् रूढो देवताऽतिशयेन सः ।।११।। इत्यर्हन्मित्रसाधुसम्बन्धः ।।
तथा ममकारो-ममताकरणं, वस्त्रपात्रोपाश्रयादिषु, तथाऽवर्णोच्चारणंअवर्णवादकथनं अर्हदादीनां एतच्च दुर्लभबोधित्वहेतुः । यदुक्तं स्थानाङ्गे'पंचहिं ठाणेहिं जीवा दुल्लभबोहियत्ताए कम्मं पगरंति । तं अरिहंताणमवन्नं वदमाणे १ अरिहंतपन्नत्तस्स धम्मस्स अवण्णं वदमाणे २ आयरियउवज्झायाणमवन्नं वदमाणे ३ चाउवन्नस्स संघस्स अवन्नं वदमाणे ४ विवक्कतवबंभचेराणं देवाणं अवण्णं वदमाणे ५ । विपक्वं-उदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा । तथाऽवर्णवादे गुरुप्रत्यनीकवराहमिहिरसम्बन्धो यथा अस्थि सिरिभरहवरिढे सयलट्ठगरिहे मरहट्टे धम्मियजणागिन्नपुन्नपडिपुन्नपवहणपइट्ठाणं सिरिपइट्ठाणं नाम नयरं, तत्थ य चउद्दसविज्जाठाणपारगो छक्कम्ममम्मविऊ पयईए भद्दओ भद्दबाहुनाम माहणो हुत्था । तस्स परमपिम्मभरसरसीरुहमिहिरो वराहमिहिरो सहोयरो । अन्नया तत्थ चउद्दसपुव्वऽपुव्वरयणमहेसरो नवतत्तवरनिहाणपत्तमहाभद्दो सिरिमं जसोभद्द सूरिचक्कवट्टी उज्जाणवणे समोसढो । तन्नमंसणकए अहमहमिगाए सयलं नयरलोयं गच्छंतं पलोइय किंचि वि संजायपमोओ वराहमिहिरेण सद्धिं भद्दबाहू सूरीण वंदणत्थं गओ | ते वंदिय कमवि परमाणंदमुव्वहंतो समुचियभूभागे निविठ्ठो । तओ सूरीहिं विहिया निव्वेयसंजणणी देसणा-संसारो दुक्खरूवो चउगइगुविलो जोणिलक्खप्पहाणो, इत्थं जीवाण मुक्खं खणम वि पवरं विज्जए नेव