________________
१८५
गच्छाचारपइण्णयं निपतन्मा ममोपरि ||२०|| शैलवन्निश्चलं वीक्ष्य विलक्षोऽथ पुरः स्थितः । पश्यन् मूर्ति प्रभोः शान्तां सुधारसमयीमिव ||२१|| निर्विषाक्षः क्षणाज्जज्ञे ततस्तं स्वाम्यवोचत । चण्डकौशिक बुध्यस्व बुध्यस्व ननु मा मुहः ||२२|| तत्समाकर्ण्य तस्याहेरूहापोहादजायत । जातिस्मृतिस्ततः स स्वं निन्दन् क्षमयत्प्रभुम् ।।२३।। प्रदक्षिणात्रयं दत्वा स्वाम्यग्रेऽनशनं व्यधात् । रुष्टो मा रम हनं सत्वान् क्षिप्त्वा तुण्डं बिले स्थितः ।।२४।। स्वाम्यस्थात् कृपया तस्य दृष्ट्वा प्रभुमुपागमन् । गोपालवत्सपालाद्या वृक्षाद्यन्तरिताः स्थिताः ।।२५।। जघ्नुस्ते लेष्टुभिस्त्वेष चित्रस्थ इव नाचलत् । विश्वस्तास्ते उपेत्याथ यष्टिभिस्तमघट्टयन् ।।२६ ।। तथाऽप्यविचलंतं तं ते लोकस्य न्यवेदयन् । अथागत्य प्रभुं लोका नत्वाऽहिं तमपूजयन् ।।२७।। घृतविक्रयिकास्तं च म्रक्षयन्ति स्पृशन्ति च । अथैत्य घृतगन्धेन कीटिकास्तमुपाद्रवन् ।।२८ || वेदनामधिसेहे तां कर्मक्षयसहायिनीम् । सोऽहिविपद्य पक्षान्ते सहस्रारे सुरोऽभवत् ।।२९ ।। इति कौशिकतापससम्बन्धः ।।।
तथा डेपनं-गर्त्तवरंडादीनां रयेणोल्लङ्घनम् । तथा लङ्घनं-साधूपरि श्राद्धाद्युपरि वा क्रोधादिनाऽन्नपानादिमोचनं अथवा लङ्घनं-उत्प्लुत्य वाहादिकोल्लङ्घनं अर्हन्मित्रसाधुवत्तथा हि-क्षितिप्रतिष्ठितं नाम पुरं द्वौ तत्र सोदरौ । अर्हन्नतोऽहन्मित्रश्च ज्येष्ठभार्या लघौ रता ||१|| लघुर्नेच्छति तां चाह भ्रातरं मे न पश्यसि ? । पतिं व्यापाद्य सा भूयस्तमूचे न त्वमस्त स ||२|| निर्वेदनाथ तेनैव स लघुव्रतमाददे । तद्रक्ता साऽपि मृत्वाऽभूद् ग्रामे क्वाप्यतितः शूनी ।।३।। साधवोऽपि ययुस्तत्र शुन्याऽदर्शि मुनिः स च । तदैवागत्य सा श्लेषं मुहुर्तुरिवाकरोत् ।।४।। नष्टः साधुर्मृता साऽथ जाताऽटव्यां च मर्कटी । तस्या एव च मध्येनाटव्या यातं कथञ्चन ।।५।। अन्तर्मुनीनां तं वीक्ष्य प्रेम्णा शिश्लेष मर्कटी । तां विमोच्याऽथ कष्टेन स कथञ्चित्पलायितः ।।६ || मृत्वा तत्रापि सा जज्ञे यक्षा तं