________________
१८४
गच्छाचारपइण्णयं व्रज ।।२।। वार्यमाणोऽपि भगवान् ययौ तत्रर्जुनाऽध्वना । ज्ञात्वा च बोधं तस्याहेरवमन्यात्मनो व्यथाम् ।।३।। यक्षमण्डपिकायां च कायोत्सर्गेण तस्थिवान् । स तु पूर्वभवे क्वापि गच्छेऽभूत् क्षपकोत्तमः ||४|| गच्छता पारणार्थं च भेकी पादेन घातिता आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ||५|| क्रुद्धः सोऽदर्शयझेकीः मार्गे लोकेन मारिताः । अरे किं क्षुल्लकक्षुद्र ! मयैता अपि मारिताः ||६|| क्षुल्लकोऽस्थात् ततस्तूष्णीं सायमावश्यकेऽपि सः । अनालोच्यैव तां भेकी न्यषदत् पक्षकस्ततः |७|| क्षुल्लको स्मारयोँकीं तामालोचयसे न किम् । क्षपकोऽथ क्रुधोत्थाय क्षुल्लं हन्मीति धावितः ||८|| मृत्वा स्तम्भास्थिघातेन ज्योतिष्केषु सुरोऽभवत् । स च्युतः कनकखले पञ्चशत्यास्तपस्विनाम् ।।९।। पत्युः कुलपतेः पत्न्याः सुतोऽभूत् कौशिकाभिधः । तत्र कौशिकगोत्रत्वादासन्नन्येऽपि कौशिकाः ||१०|| स चातिकोपनत्वेन ख्यातोऽभूत् चण्डकौशिकः । मृते कुलपतौ तत्र सोऽभूत् कुलपतिस्ततः ।।११।। मूर्छालुस्तत्र कस्यापि नादात् पुष्पफलादि सः | जग्मुर्दिशोदिशं पश्चात् तापसास्तदनाप्तितः ।।१२।। अन्यदा कण्टकार्थं च कौशिको गतवान् बहिः । श्वेतम्ब्या एत्य राजन्यैर्भग्नं तस्य वनं तदा ।।१३।। भज्यते त्वद्वनं कैश्चिदित्याख्यातेऽस्य गोपकैः । दधावे तत्क्षणात् पशु-पाणिं परशुरामवत् ।।१४।। दृष्टः कुमारैर्नष्टास्ते धावन् गर्ते पपात सः | कुठार: सम्मुखोऽस्या-भूच्छिरस्तेन द्विधा कृतम् ।।१५।। मोहात् तत्रैव जज्ञेऽहिदृग्विषश्चण्डकौशिकः । वने तत्र स बभ्राम जीवं दृष्ट्वा दहन् क्रुधा ।।१६ || दृष्ट्वाऽथ स्वामिनं क्रुद्धः किं मां न ज्ञातवानसौ । सूरं वीक्ष्य निरैक्षिष्ट परं नादात प्रभुः ||१७|| भानुं पुनः पुनर्वीक्ष्य वीक्षते स्म प्रभुं दृशा । परं प्रभौ विषज्वाला पुष्पमाला इवाभवन् ।।१८।। ददंश दंदशूकोऽथ निःशूकः पादयोः प्रभुम् । परं प्रभौ वज्रसारे दंशदंश इवाभवत् ।।१९।। दृष्ट्वा दृष्ट्वा क्रुधातीवापचक्रामाथ दृग्विषः । मूर्छितो मद्विषेणैष