SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १७६ इति-निःसन्दिग्धः नियमात्प्रतिपत्त्यपेक्षया, शब्दतः सिद्धिः-वाचकाद्वाच्यप्रतिपत्तितः, एतदेव प्रश्नद्वारेणाह-कस्मादेतदेवमित्याह, शुद्धपदत्वात्केवलपदत्वाज्जीवशब्दस्य घटखरशृङ्गानुमानादनुमानशब्दः दृष्टान्तवचनः, घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु मुख्येनार्थेनार्थवान् जीवशब्दः शुद्धपदत्वात् घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान्न भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्दः ||५|| पराभिप्रायमाशंक्य परिहरन्नाहसुद्धपयत्ता सिद्धी, जइ एवं सुन्नसिद्धि अम्हंपि । तं न भवइ संतेणं जं सुन्नं सुन्नगेहं व ।।६।। उक्तवच्छुद्धपदत्वात् सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह-तन्न भवति, यदुक्तं परेण कुत इत्याह सता-विद्यमानेन पदार्थेन यत्-यस्मात् शून्यं शून्यमुच्यते किंवत्तदित्याह-शून्यगृहमिव यथाहिदेवदत्तेन रहितं शून्यगृहमुच्यते निवृत्तो घटो नष्ट इति । न त्वनयोर्जीवशब्दस्य जीववदविशिष्टं वाच्यमस्तीति ।।६ || प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह-मिच्छा भवे उ सव्वत्था, जे केइ पारलोइया । कत्ता चेवोपभुत्ता य, जह जीवो न विज्जइ । ७ ।। पारलौकिका दानादयः कर्ता चैव कर्मण उपभोक्ता च तत्फलस्य । एतदेव स्पष्टतरमाहपाणिदया तव नियमा बंभं दिक्खा य इंदियनिरोहो । सव्वनिरत्थयमेयं जइ जीवो न विज्जइ ||८ || लोइआ वेइआ चेव तहा सामाइआ विऊ। निच्चो जीवोपि हू देहा इइ सव्वे ववत्थिया ।।९।। लोकिकाइतिहासादिकर्तारः वेदिकाश्चैव-त्रैवैद्यवृद्धास्तथा सामायिकास्त्रिपिटिकादिसमयवृत्तयो विद्वांसः-पण्डिताः नित्यो जीवो नाऽनित्य एवं पृथग्देहात् इत्येवं सर्वे व्यवस्थिता नान्यथा ।९। एतदेव व्याचष्टे । लोए अच्छिज्जभिज्जो, वेए सपुरीसदड्डगसियालो । समए अहमासि गओ, तिविहो दिव्वाइसंसारो ||१०|| लोके अच्छेद्योऽभेद्य आत्मा पठ्यते । यथोक्तं गीतासु 'अच्छेद्योऽयमभेद्योऽय-मविकार्योऽयमुच्यते । नित्यः सततगः
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy