SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं न पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते कथं तर्हि मृत इति व्यपदेश इत्याशंक्याहअथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यां तदूद्ध तेषामन्यतमस्य विनाशे अपगमे वायोस्तेजसो वोभयोर्वा देहिनो देवदत्ताख्यस्य विनाशापगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्त्तते न पुनर्जीवापगमः । इति द्वितीयाङ्गोक्तो नास्तिकमतपूर्वपक्ष:, अत्र समाधानार्थं श्रीदशवैकालिकनिर्युक्तितः किञ्चिदुच्यते-' आत्थि त्ति दारमहुणा, जीवो अत्थि त्ति विज्जए नियमा । लोगाययमयघायत्थ- मुच्चए तत्थिमो हेऊ ।। १ ।। लोकायतमतघातार्थं-नास्तिकाभिप्रायनिराकरणार्थं ||१|| जो चिंतेइ सरीरे, नत्थि अहं स इव होइ जीवुत्ति । न हु जीवम्मि असंते, संसयउप्पायओ अन्नो ।।२।। यश्चिन्त्यति शरीरे नास्त्यहं स एव चिन्तयिता भवति जीवः, हु-यस्माज्जीवेऽसति मृतदेहादौ संशयोत्पादकोऽन्यः प्राणादिश्चैतन्यरूपत्वात् संशयस्य ।।२।। एतदेव भावयति - जीवस्स एस धम्मो, जा ईहा अत्थि नत्थि वा जीवो । थाणुमणुस्साणुगया, जह ईहा देवदत्तस्स || ३ || जीवस्यैषः धर्म्मः - स्वभावः या ईहा - सदर्थपर्यालोचनात्मिकाऽस्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह-स्थाणुमनुष्यानुगता-किमयं स्थाणुः किं वा पुरुषं इत्येवं रूपा यथेहा देवदत्तस्य जीवतो धर्म्मः ||३|| प्रकारान्तरेण तदेवाह - सिद्धं जीवस्स अत्थित्तं सद्दादेवाणुमीयए । नासओ भुवि भावस्स सद्दो हवइ केवलो ||४|| सिद्धं-प्रतिष्ठितं जीवस्यउपयोगलक्षणस्यास्तित्वं शब्दादेव जीव इत्यस्मादनुमीयते कथमेतदेवमित्याह-नासतो-ऽविद्यमानस्य भुवि - पृथिव्यां भावस्य-पदार्थस्य शब्दो भवति वाचकः खरविषाणादिशब्दैर्व्यभिचारमाशंक्याह-केवलः-शुद्धोऽन्यपदासंस्पृष्टः खरादिपदसंस्पृष्टाश्च विषाणादिशब्दाः || ४ | । एतद्विवरणायैवाह - अत्थि त्ति निव्विगप्पो, जीवो नियमाउ सद्दओ सिद्धी । कम्हा सुद्धपयत्ता, घडखरसिंगाणुमाणाओ || ५ || अस्तीति निर्विकल्पो जीवः, निर्विकल्प १७५
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy