SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७३ __ गच्छाचारपइण्णय केवलिनां धर्माचार्यस्यधर्मोपदेशकस्य सङ्घश्च साधवश्च सङ्घसाधवस्तेषां अवर्णवादीति सर्वत्र योज्यम्, तत्रावर्णो-अश्लाघारूपः, स चैवम्-श्रुतज्ञानस्य पुनस्त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयौ मोक्षाधिकारिणां च किं ज्योतिर्योनिपरिज्ञानेनेत्यादि भाषते केवलिनां च ज्ञानदर्शनयोः क्रमेणोपयोगे परस्परावरणता युगपदुपयोगे चैक्यापत्तिरिति, धर्माचार्यस्य जात्यादिभिरधिक्षेपणादीनि सङ्घस्य च बहवः श्वशृगालादिसंघास्तत्कोऽयमिह सङ्घः, साधूनां च नाऽमी परस्परमपि सहन्ते तत एव देशान्तरयायिनोऽन्यथा त्वेकत्रैव संहत्या तिष्ठेयुरत्वरितगतितया मन्दयायिनोऽत एव बकवृत्तिरियमेषामित्यादि, एवंविधमवर्णं वदितुं शीलमस्येत्यवर्णवादी माया-अस्य स्वभावविनिगृहनादिरूपास्तीति मायी किल्बिषिकी भावनां करोतीति ।।३।। 'अणुबद्धरोसपसरो, तह य निमित्तंमि होइ पडिसेवी । एएहि कारणेहिं, आसुरियं भावणं कुणइ ।।४।। अनुबद्धः-सततमव्यवच्छिन्नो रोषस्य-क्रोधस्य प्रसरो-विस्तारो यस्य सोऽनुबद्धरोषप्रसरः नित्यं विरोधशीलतया पश्चादननुतापितया क्षामणादावपि मनःप्रसत्त्यप्राप्त्या चेति भावः, तथा च निमित्तं-अतीतानागतवर्तमानभेदात् त्रिधा तस्मिन् विषये भवति जायते प्रतिसेवीति-अवश्यं प्रतिसेवकोऽपुष्टालम्बनेऽपि तदासेवनात् । एताभ्यां कारणाभ्यामासुरीं भावनां करोति ||४|| मोहीभावनामाह-'सत्यग्गहणं विसभक्खणं च, जलणं च जलपवेसो अ । अणयारभंडसेवा, जम्मणमरणाणि बंधंति ।।५।। शस्त्रं-खड्गादि तस्य ग्रहणं-स्वीकरणमुपलक्षणत्वादस्यात्मनि वधार्थं व्यापारणं शस्त्रग्रहणं, विषं-तालपुटादि तस्य भक्षणं विषभक्षणं, चः समुच्चये, ज्वलनं भस्मीकरणमात्मन इति गम्यते, जले प्रवेशो-निमज्जनं जलप्रवेशश्चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थं, आचारः-शास्त्रविहितो व्यवहारस्तदभावोऽनाचारस्तेन भाण्डस्य-उपकरणस्य सेवा-हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा गम्यमानत्वादेतानि कुर्वन्तो यतयो जन्ममरणान्युपचारात्
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy