________________
१७२
गच्छाचारपइण्णयं भावनानां व्याख्यानगाथा उत्तराध्ययनप्रान्तोक्ता यथा-'कंदप्पकोकुयाइं, तह सीलसहावहासविगहाहि । विम्हावितो अ परं, कंदप्पं भावणं कुणइ ||१|| कन्दर्पो-अट्टहासहसनं, अनिभृतालापाश्च गुर्वादिनापि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथा-कामोपदेशकामप्रशंसाश्चेति, काकुच्यं द्विधा, कायकौकुच्यं वाक्कौकुच्यं च, तत्राद्यं यत् स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, यत्तु तज्जल्पति येनान्यो हसति, तथा नानाजीवविरुतानि मुखातोद्यवाद्यतां च विधत्ते तद्वाक्कौकुच्यं ततः कन्दर्पश्च कौकुच्यं च कन्दर्पकौकुच्ये कुर्वन्निति शेषः । 'तहत्ति येन प्रकारेण परस्य विरमयः उपजायते तथा यच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं स्वरूपं हासश्च-अट्टाट्टहासादिः विकथाश्च-परविरमापकविविधोल्लापरूपाः शालस्वभावहासविकथास्ताभिर्विस्मापयंश्चविस्मितं कुर्वन् परम्-अन्यं कन्दर्पयोगात् कन्दर्पाः प्रस्तावाद्देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दी तां भाव्यते-आत्मसान्नीयते आत्मा अनयेति भावना, तद्भावाभ्यासरूपा तां करोति, एवमुत्तरत्रापि भावनीयम् ।।१।। ‘मंताजोगं काउं, भूईकम्म च जे पउंजंति | सायरसइड्डिहेउं अभिओगं भावणं कुणइ ।।२।। मंत्राणामायोगो-व्यापारो मन्त्रायोगस्तं यदि वा मन्त्राश्चयोगाश्चतथाविधद्रव्यसंयोगाः सूत्रत्वान्मन्त्रयोगं तत्कृत्वा-विधाय व्यापार्य वा भूत्वाभस्मना उपलक्षणत्वान्मृदा सूत्रेण कर्मरक्षार्थं वसत्यादिपरिवेष्टनं भूतिकर्म च शब्दात् कौतुकादि च यः प्रयुक्ते, किमर्थं सातं-सुखं रसा-माधुर्यादयः, ऋद्धिरुपकरणादिसंपदेता हेतवो यस्मिन् प्रयोजने तत्सातरसर्द्धिहेतुको भावः, साताद्यर्थं मन्त्रयोगादि प्रयुङ्क्तेएवमाभियोगी भावनां करोति इह च सातादिहेतोरभिधानं निःस्पृहस्यापवादत एतत् प्रयोगे प्रत्युत गुण इति ख्यापनार्थम् ।।२।। 'नाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं । माई अवण्णवाई, किदिवसियं भावणं कुणइ ।।३।।' ज्ञानस्य-श्रुतज्ञानादेः