SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७१ गच्छाचारपइण्णयं सङ्घट्टादिकं कुर्यादपि यदुक्तमाचाराङ्गद्वितीयश्रुतस्कन्धतृतीयेर्याध्ययनस्य द्वितीयोद्देशके से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणानि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाउ वा दरीउ वा सति परक्कमे संजयामेव परक्कमेज्जा णो उज्जुयं गच्छेज्जा, केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा से तत्थ पयलमाणे पवडमाणे वा रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाउ वा वल्लीउ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय अवलंबिय उत्तरेज्जा, जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाएज्जा, ततो संजयामेव अवलंबिय अवलंबिय उत्तरेज्जा, ततो संजयामेव गामाणुग्गामं दूइज्जेज्जा । अस्य वृत्तिः-स भिक्षुर्गामान्तराले यदि वप्रादिकं पश्येत् ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेत्, यतस्तत्र गर्तादौ निपतन् सचित्तवृक्षादिकमवलम्बेत् तच्चायुक्तम्, अथ कारणिकस्तेनैव पथा गच्छेत् कथंचित्पतितश्च गच्छगतो वल्यादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति । गाथाछन्दः ||८१।। अथ हास्यादित्याजनद्वारेण प्रस्तुतमेव विशेषयति हासं खेड्डाकंदप्प, नाहियवायं न कीरए जत्थ । धावणडेवणलंघण-ममकारावण्णउच्चरणं ।।८२ ।। हास्यं खेला कान्दी नास्तिकवादो न क्रियते यत्र । धावनं डेपनं लङ्घनं ममकारः अवर्णोच्चारणम् ।।८२।। व्याख्या - हास्य-हसनं खेला-क्रीडा शारिचतुरङ्गद्यूताद्या अन्त्याक्षरिकाप्रहेलिकादानादिजनिता वा इन्द्रजालकगोलकखेलनाद्या वा 'कंदप्प' त्ति कान्दपीभावना विभक्तिलोपः प्राकृतत्वात्, उपलक्षणत्वादाभियोगी २ किल्बिषिक्या ३ सुरी ४ मोही ५ भावनाश्च, एतासां
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy