________________
गच्छाचारपइण्णयं
..... १७० पदेनेत्यर्थः, सारूपिकेणादिशब्दात् सिद्धपुत्रकेण पश्चात्कृतेन च, तत्र मुण्डितशिराः शुक्लवासपरिधायी कच्छामबध्नान अभार्याको भिक्षां हिण्डमानः सारूपिकः, सभार्याकोऽभार्याको वा शुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रकः सिद्धपुत्रकः, त्यक्तचारित्रवेषः पश्चात्कृतः, तथा श्राद्धेनगृहीताणुव्रतेन आदिशब्दात् सम्यग्दृष्टिना यथा भद्रकेन च तृतीयादिशब्दादन्यतीर्थिकेन तद्गृहस्थेन च शूले विशूचिकायामन्यतरस्मिन् वा रोगे उत्पन्ने ज्वलनोज्ज्वालनादीति पूर्वगाथात आकर्षणीयम्, यतनया पूर्वपूर्वस्याभावे उत्तरोत्तरेणेत्यर्थः । 'कारिंति त्ति कारयन्ति अत्र छन्दोभङ्गनिवृत्तये प्राकृतत्वाद्दीर्घः, एवमन्यत्रापि ज्ञेयम् । अथवा निशीथपीठोक्ता यतना सा च तत एवावसेया । हे गौतम ! स गच्छो भणित इति । गाथाछन्दः ||८०।।
पुप्फाणं बीयाणं, तयमाईणं च विविहदव्वाणं । संघट्टणपरिआवण, जत्थ न कुज्जा तयं गच्छं ।।८१।। पुष्पानां बीजानां, त्वगादीनां च विविधद्रव्याणाम् । सङ्घट्टन परितापनं, यत्र न कुर्यात् स गच्छः ॥८१॥
व्याख्या - पुष्पाणि द्विविधानि जलजानि स्थलजानि च, तत्र जलजानि सहस्रपत्रादीनि, स्थलजानि कोरण्टकादीनि, तान्यपि प्रत्येकं द्विविधानि वृंतबद्धानि अतिमुक्तकादीनि नालबद्धानि च जातिपुष्पप्रभृतीनि, तत्र यानि नालबद्धानि तानि सर्वाणि संख्येयजीवानि यानि तु वृतबद्धानि तानि असंख्येयजीवानि, स्नुह्यादीनां पुष्पाणि अनन्तजीवानीति तेषां तथा बीजानि शालिगोधूमयवादीनि तेषां, त्वगादीनां च आदिशब्दात् मूलपत्राङ्कुरफलादीनां विविधद्रव्याणां-नानाविधसजीवपिण्डानां वनस्पतिकायभेदानामित्यर्थः । सङ्घट्टनं-मनाक्स्पर्शनं परितापनं-सर्वतः पीडनम्, यत्र न कुर्यात् मुनिनिकरः स गच्छ: स्यादिति शेषः । कारणे तु वृक्षादीनां