________________
१६९
गच्छाचारपइण्णयं तपस्विनो देहं देवताधितिष्ठति, भत्तपडि० प्रत्याख्यातभक्तस्यानशनिन इत्यर्थः । तथा हरीतकीप्रभृतिफलादिभिरपि जलं प्रासुकं स्यात् । यत उक्तं श्रीबृहत्कल्पप्रथमोद्देशकभाष्ये-'तुबरे फले अ पत्ते, रुक्खसिलातप्पमद्दणाईसु । पासंदणे पवाए, आयवतत्ते वहेयवहे ||१|| अध्वनि वर्त्तमानैः काञ्जिकादिप्रासुकपानकाऽप्राप्तावीदृशानि 'नकानि गृहीतव्यानि । तद्यथा-तुंबरफलानि-हरीतकीप्रभृतीनि तुंबरपत्राणि-पलाशपत्रादीनि तैः परिणामितं, तथा 'रुक्खे' त्ति वृक्षकोटरकटुकफलपत्रादिपरिणामितं, एवंविधस्याभावे 'सिल' त्ति शिलाजतुभावितमित्यादि, एतच्च निशीथभाष्यपीठेऽप्यस्ति इति । गाथाछन्दः ||७८ ।।
जत्थ य सूलविसूइय-अन्नयरे वा विचित्तमायके । उप्पण्णे जलणुज्जालणाइ, कीरइ न मुणि तयं गच्छं ।।७९ ।। यत्र च शूले विशूचिकायां अन्यतरस्मिन् वा विचित्रातङ्के। उत्पन्ने ज्वलनोज्वालनादि, क्रियते न मुने! सको गच्छः ॥७९॥
व्याख्या - यत्र च गणे शूले विशूचिकायां प्राकृतत्वाद्विभक्तिलोपः, अन्यतरस्मिन् वा विचित्रे-ऽनेकविधे आतंके-रोगे उत्पन्ने-प्रादुर्भूते सति ज्वलनस्य-अग्नेरुज्ज्वालनं ज्वलनोज्ज्वालनं तदादि न क्रियते, उत्सर्गपदेनेति शेषः, हे मुने ! गौतम ! स गच्छ: स्यादिति । गीतिछन्दः । ७९ ।।
बीयपएणं सारूविगाइसड्ढाइमाइएहिं च । कारिती जयणाए, गोयम ! गच्छं तयं भणियं ।।८०।। द्वितीयपदेन सारूपिकादि-श्राद्धादिआदिभिः च । कारयन्ति यतनया, गौतम ! गच्छ: सको भणितः ॥८०॥ व्याख्या-यत्र गच्छे मुनयो द्वितीयपदेन-उत्सर्गपदापेक्षयाऽपवाद