________________
1
गच्छाचारपइण्णयं धिवालनिष्पन्नचालककेन सुघारेकागृहकेन वेत्यादिनोपकरणेनाऽस्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीड्य तथा परिश्राव्य-निर्गाल्याहृत्य च साधुसमीपं दद्यादित्येवं प्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृण्हीयादिति वृत्तौ चूर्णौ तु गोलविसए अंबगाणि फालित्ता सुक्कविज्जति तेसिं धोवणं अंबपाणगं एवं अंबाडगाइणं सव्वेसिं धोवणं रसमीसं वा इत्यस्ति । अयं चाचारांगोक्तः सर्वस्मिन् काले साधूनां साधारणः पानकग्रहणविधिः, तथा वर्षाकालमाश्रित्य श्रीमत्कल्पेऽप्युक्तं, तद्यथा-‘वासावासं पज्जोसवियाणं निच्चभत्तियस्स भिक्खुस्स कप्पंति सव्वाइं पाणगाइं पडिगाहित्तए १ वासावा० चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए तं जहा उस्सेइमं १ संसेइमं २ चाउलोदगं ३ । वासावा० छट्टभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई तं० तिलोदगं १ तुसोदगं २ जवोदगं ३ । ३ । वासावा० अट्ठमभत्ति० तओ पाणगाइं तं० आयामं १ सोवीरं २ सुद्धवियडं ३ |४| वासावा० विकिभत्तियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए से वि य णं असित्थे नो वि य णं ससित्थे ।५ । वासावा० भत्तपडिआइक्खियस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, से वि य णं असित्थे नो चेव णं ससित्थे, से वि य णं परिपूए नो चेव णं अपरिपूए, से वि य णं परिमिए नो चेव णं अपरिमिए ।६ ।' 'सव्वाइ पाणगाई ति पानैषणोक्तानि वक्ष्यमाणानि वा नवोत्स्वेदिमानि तत्रोत्स्वेदिमं - पिष्टजलं पिष्टभृतहस्तादिक्षालनजलं वा १, संस्वेदिमं संसेकिमं वा यत्पर्णाद्युक्ताल्यसीतोदकेन सिच्यते तत् २. चाउलोदकं तंदुलधावनोदकं ३, तिलोदकं महाराष्ट्रादिषु निस्त्वचिततिलधावनं जलं ४, तुषोदकं - व्रीह्यादिधावनं ५, यवोदकं-यवधावनं ६, आयामको ऽवश्रावणं ७, सौवीरं काञ्जिकं ८, शुद्धविकटं- उष्णोदकं वर्णान्तरादिप्राप्तं शुद्धजलं वा केवलोष्णं तु उसिणवियड इत्यनेनैवोक्तमिति । ‘एगे उसिणविअडे' त्ति । एकमुष्णोदकं तदप्यसिक्त्थं, यतः प्रायेणाष्टमोद्धर्वं
-
१६८