SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६७ गच्छाचारपइण्णयं फासुयं लाभे संते पडिगाहेज्जा ।' तिलोदकं - तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकमेवं तुषैर्यवैर्वा तथा आचाम्लं - अवश्यामं, सौवीरं- आरनालं, शुद्धविकटं-प्रासुकमुदकं, अन्यद्वा तथाप्रकारं द्राक्षापानकादिपानकजातंपानीयसामान्यं पूर्वमेवालोकयेत् पश्येत् । ततश्च दृष्ट्वा तं गृहस्थं अमुक इति वा भगिनीति वा इत्यामन्त्र्यैवं ब्रूयात्, यथा दास्यसि मे किञ्चित् पानकजातं ? स परस्तं भिक्षुमेवं ब्रूयात् यथाऽऽयुष्मन् ! श्रमण ! त्वमेवेदं ! पानकजातं स्वकीयेन पतद्ग्रहेण टोप्परिकया कटाहकेन वोत्सिंच्याऽपवृत्य वा पानकभण्डकं गृहाण । स एवमभ्यनुज्ञातः स्वयं गृण्हीयात् परो वा तस्मै दद्यात् तदेवं लाभे सति परिगृहीयादिति । 'से भिक्खू वा २ जाव समाणे सेज्जं पुण पाणगजातं जाणिज्जा तं० अंबपाणगं वा १ अंबाडगपाणगं वा २ कविट्ठपाणगं वा ३ माउलिंगपाणगं वा ४ मुद्दियापाणगं वा ५ दालिमपाणगं वा ६ खज्जूरपाणगं वा ७ णालिएरपाणगं वा ८ करीरपाणगं वा ९ कोलपाणगं वा १० आमलगपाणगं वा ११ चिंचापाणगं वा १२ अन्नतरं वा तहप्पगारं पाणगजायं सअट्ठियं सकणुयं सबीयं अस्संजए भिक्खुपडियाए छव्वेण वा दूसेण वा चालगेण वा आवलियाणं परपीलियाणं परिस्सावियाणं आहट्टुदलएज्जा तहप्पगारं पाणगजातं अफासुयं लाभे संते णो पडिगाहेज्जा ।' 'अंबपाणगं वे 'त्यादि सुगमम् । नवरं 'मुद्दिया' द्राक्षा कोलानि - बदराणि एतेषु च पान केषु द्राक्षाबदराम्लिकादिकतिचित्पानकानि तत्क्षणमेव सम्मर्द्य क्रियन्ते, अपराणि त्वाम्राम्बाटकादिपानकानि द्वित्रादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पानकजातं, तथाप्रकारमन्यदपि सास्थिकं सहास्थिना- कुलकेन यद्वर्त्तते, तथा सह कणुकेन- त्वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्त्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातमसंयतो-गृहस्थो भिक्षुप्रतिज्ञया- भिक्षुमुद्दिश्य - साध्वर्थं द्राक्षादिकमामर्द्य वंशत्वग्निष्पादितच्छव्वकेन वा तथा दूसं वस्त्रं तेन वा तथा 'चालगेणं'ति गवादिवाल
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy