SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १६० चरका संख्यादत्तिकाः पृष्टलाभिकाः दृष्टलाभिकाः इत्यादयो गृह्यन्ते, एते गुणिनः कथञ्चिदभेदाद्भावयुताः खल्वभिग्रहा भवन्ति भावाभिग्रहा इति भावः, यद्वा गायन् यदि दास्यति तदा मया गृहीतव्यम्, एवं रुदन् वा निषण्णादिर्वा आदिग्रहणादुत्थितः सम्प्रति स्थितो यद्ददाति तद्विषयोऽभिग्रहः स सर्वोऽपि भावाभिग्रह उच्यते ||५|| तथा ओसक्कणअहिसक्कण-परम्मुहालंकि एयरो वावि । भावन्नयरेण जुओ, अहभावाभिग्गहो नाम ।।६।। अवष्वष्कन्- अपसरणं कुर्वन्नभिष्वष्कन्सम्मुखमागच्छन् पराङ्मुखः प्रतीतः अलङ्कृतः कटकेयूरादिभिः इतरो वाऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्येतेषां भावानामन्यतरेण भावेन युतः अथायं भावाभिग्रहो नामेतिभावाभिग्रहाः ।।६।। एते च द्रव्यादयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीर्णत्वान्मोहमदापनयनप्रत्यलत्वाच्च गच्छवासिनां तथाविधसहिष्णुपुरुषविशेषापेक्षया महत्याः कर्म्मनिर्ज्जराया निबन्धनं प्रतिपत्तव्या इति । तथा प्रायश्चित्तं दशधा तद्यथा - आलोयणारिहं १, पडिक्कमणारिहं २, तदुभयारिहं ३, विवेगारिहं ४, उस्सग्गारिहं ५, तवारिहं ६, छेदारिहं ७, मूलारिहं ८, अणवट्टप्पारिहं ९, पारंचियारिहं १० । तत्थ आहाराइगहणे तहा उच्चारसज्झायभूमिचेइयजइवंदणत्थं पीढफलगपच्चप्पणत्थं कुलगणसंघाइकज्जत्थं वा हत्थसया बाहिं निग्गमे आलोअणारिहं । तत्र आलोचनां - गुरुनिवेदनां विशुद्धये यदर्हति भिक्षाचर्याद्यतीचारजातं तदालोचनार्हं तद्विशोधकमालोचनालक्षणं प्रायश्चित्तमप्युपचारादालोचनार्हमित्युक्तं एवमन्यान्यपि १, पडिक्कमणं - मिच्छादुक्कडदाणं तं च सहसा अणाभोगेण वा गुत्तिसमिइपमाए, गुरुआसायणाए, विणयभंगे, इच्छाकाराइसामायारीअकरणे, लहुसमुसावायअदिन्नादाणमुच्छासु, अवि खासखुयजंभियवाएसु, कंदप्पहासविकहाकसायविसयाणुसंगेसु, आभोएणवि अप्पेसु नेहभयसोगवाउसाईसु य कीरइ । तत्थ लहुसमुसावायपया पयला
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy