________________
१५९
गच्छाचारपइण्णयं भावः ४, यस्यां तु साधुः क्षेत्रं पेटापच्चतुरस्रं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा, अर्द्धपेटाऽप्येवमेव नवरमर्द्धपेटासदृशसंस्थानयोदिग्द्वयसम्बद्धयोर्गृहश्रेण्योरत्र पर्यटति, ६, तथा शम्बूकः-शङ्खस्तद्वद्या वीथी सा शम्बूका सा द्वेधा, अभ्यन्तरशम्बूका बहिःशम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्खवृत्तया परिभ्रमणभङ्ग्या भिक्षां गृण्हन् क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका ७, यस्यां तु क्षेत्रबहिर्भागात् तथैव भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका ८, तथा एलुकः-उदुम्बरस्तस्य विष्कम्भ-आक्रमणं तन्मात्रेण मया ग्रहणं कर्त्तव्यमिति कस्याप्यभिग्रहो भवति यथा श्रीमन्महावीरस्वामिनः, तथा स्वग्रामे वा परग्रामे वा एतावन्ति गृहाणि मया प्रवेष्टव्यानीत्येष क्षेत्रविषयोऽभिग्रह इति क्षेत्राभिग्रहाः ||२|| काले अभिग्गहो पुण, आई मज्झे तहेव अवसाणे | अप्पत्ते सइकाले, आई बिइओ अ चरमम्मि ||३|| काले कालविषयोऽभिग्रहः, पुनरयं आदौ मध्ये तथैव चावसाने भिक्षावेलायाः एतदेव व्याचष्टे, अप्राप्ते भिक्षाकाले यत्पर्यटति स आदाविति आद्यभिक्षाकालविषयः प्रथमोऽभिग्रहः, यत्तु सति प्राप्ते भिक्षाकाले चरति स द्वितीयो मध्यभिक्षाकालविषयोऽभिग्रहः, यत्पुनश्चरमेऽतिक्रान्ते भिक्षाकाले पर्यटति, सोऽवसानविषयोऽभिग्रहः, कालत्रयेऽपि गुणदोषानाहदिन्तगपडिच्छगाणं, हविज्ज सुहुमंपि मा हु अचियत्तं । इय अप्पत्ते अइए, पवत्तणं मा ततो मज्झे ।।४।। ददत्प्रतीच्छकयोरिति भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च वनीपकादेर्माभूत सूक्ष्ममप्यचियत्तंअप्रीतिकमित्यस्माद्धेतोरप्राप्तेऽतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते, 'पवत्तणं मा ततो मज्झे'त्ति अप्राप्ते अतीते वा पर्यटतः प्रवर्त्तनं पुर:कर्मपश्चात्कर्मादेर्माभूत् एतेन हेतुना मध्ये प्राप्तभिक्षाकाले पर्यटन्तीति कालाभिग्रहाः ||४|| उक्खित्तमाइचरगा, भावजुया खलु अभिग्गहा होति ।
गायंतो व रुदंतो, जं देइ निसन्नमाई वा ।।५।। उत्क्षिप्तं पाकपिठरात्पूर्वमेव -- दायकेनोद्धृतं तद्ये चरंति-गवेषयन्ति ते उत्क्षिप्तचरकाः, आदिशब्दान्निक्षिप्त