SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १५८ गच्छे नानाभिग्रहान् दुःकरप्रायश्चितं चानुचरतो मुनीन् क्वचिद् द्वितीयादेः (८-३-१३४) इति प्राकृतसूत्रेण द्वितीया षष्ठीविधानात् दष्ट्वाति शेषः देवेन्द्राणामपि किं पुनरन्येषां चित्तचमत्कारः-अन्तःकरणाश्चर्यं जायते, हे गौतम ! स गच्छः । अत्राधिकारादभिग्रहप्रायश्चितस्वरूपं किञ्चिदुच्यते, तत्राभिग्रहाः-द्रव्य १ क्षेत्र २ काल ३ भाव ४ भेदाच्चतुर्विधास्तद्यथालेवडमलेवडं वा, अमुगं दव्वं व अज्ज घेत्थामि । अमुगेण व दव्वेणं, अह दव्वाभिग्गहो नाम ।।१।। लेपकृतं-झगारिप्रभृतिकमलेपकृतं वा वल्लचणकादि अमुकं वाऽनिर्दिष्टनामकं मण्डकादि द्रव्यमद्य ग्रहीष्यामि, अमुकेन वा दर्वीकुन्तादिना दीयमानमहं ग्रहीष्ये, अथायं द्रव्याभिग्रहो नाम-भिक्षाग्रहणविषयप्रतिज्ञाविशेष इति, द्रव्याभिग्रहाः ।।१।। अट्ठ उ गोयरभूमी, एलुगविक्खंभमित्तगहणं व । सग्गामपरग्गामे एवइयघरा य खित्तम्मि ।।२।। अष्टौ गोचरभूमयो भवन्ति, ताश्चैताः-ऋज्वी १ गत्वा प्रत्यागतिका २ गोमूत्रिका ३ पतंगवीथिका ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशंबूका ७ बहिःशंबूका ८ । तत्र यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः (ग्रं० ३०००) प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षां परिभ्रमन् तावद्याति यावत् पङ्क्तौ चरमगृहं, ततो भिक्षामगृहन्नेव अपर्याप्तेऽपि प्राञ्जलयैव गत्या प्रतिनिवर्त्तते सा ऋज्वी १, यत्र पुनरेकस्यां गृहपङ्क्तौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्यां गृहपङ्क्तौ भिक्षामटति सा गत्वा प्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यां सा गत्वा प्रत्यागतिकेति व्युत्पत्तेः २, यस्यां तु वामगृहाद्दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति, सा गो:-बलीवर्दस्य मूत्रणं गोमूत्रिका, तदाकारा गोचरभूमिरपि गोमूत्रिका ३, यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतंगवीथिका, पतङ्गः-शलभस्तस्येव या वीथिका-पर्यटनमार्गः सा पतङ्गवाथिका, पतङ्गो हि गच्छन्नुत्प्लुत्योत्प्लुत्यानियतया गत्या गच्छति एवं गोचरभूमिरपि या पतंगोड्डयनाकारा सा पतङ्गवीथिकति
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy