SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५७ गच्छाचारपइण्णय ||१|| उच्छोलणा पधोविस्स दुल्लमा सुगई तारिसयस्स । उच्छोलणा दोसो भवति, पिपीलगादीणं वा पाणाण उप्पिलावणा हवति, खिल्लरंधे तसा पडंति, तरुगणपत्ताणि वा पुष्पाणि वा फलाणि वा पडंति, आदिगहणेणं पुढविआउतेउवाऊण य । यत्राग्निस्तत्र वायुना भवितव्यमिति कृत्वा कुरुकुयकरणे य वाउसत्तं भवति, कारणे अतिरित्तेण आयमे बितिअपदसेहरोहगहरिसा आगारसोअवादीसु उत्थाणोसहपाणे । परेण तिन्हायमेज्जासि | जेण वा णिल्लेवं णिग्गंधं भवतीत्यर्थः ||१०|| कारणे तु मूत्रेणापि कल्पते । उक्तं च वृहत्कल्पपञ्चमोद्देशके ‘णो कप्पइ निग्गंथाण वा निग्गंथीण वा अण्णमण्णस्स मोयं आइयत्तए वा आयमित्तए वा णण्णत्थ गाढेसु अगाढेसु वा रोगायंकेसु || नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वाऽन्योन्यस्य-परस्परस्य मोकं-मूत्रं वा पातुं वा आचमितुं वा, किं सर्वथैव नेत्याहगाढा अहिविषविसूचिकादयः अगाढाश्च ज्वरादयो रोगातंकास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पत इत्यर्थः । इति कल्पत्रेपस्वरूपं । यद्वा कल्पत्रेपशब्देनात्र चैत्रमासाद्यस्वाध्यायिकोत्तरणानन्तरकर्त्तव्यः परम्परागम्यः कश्चित्कर्त्तव्यविशेष इति । तथा यत्र गच्छे मृदुका:मार्दवोपेता विनयादिसमन्विता इत्यर्थः निभृतस्वभावा-आलोचनादौ रहस्येऽपि प्रोक्ते गम्भीरस्वभावाः निश्चलचित्ता वा हास्यं-सामान्येन द्रवः-परिहास: परोत्प्रासनं परोपहास इत्यर्थः हास्यं च द्रवश्च हास्यद्रवौ ताभ्यां विवर्जितारहिताः, विरुद्धा कथा विकथास्ताभिर्मुक्ता-विवर्जिताः असमञ्जसंगुर्वाज्ञाभङ्गाद्यन्यायमकुर्वन्तः एवंविधाः सन्तः साधवो गोचरभूम्यर्थं तात्स्थात्तद्व्यपदेश इति गोचरभूमिलभ्याऽशनाद्यर्थं न निष्प्रयोजनमित्यर्थः, अत्र विभक्तिलोपः प्राकृतत्वात् । अथवा गोचरभूमयः, ऋज्वी १ गत्वा प्रत्यागतिका २ गोमूत्रिका ३ पतंगवीथिका ४ पेटा ५ अर्द्धपेटा ६ अभ्यन्तरशम्बूका ७ बहिःशंबूका ८ रूपाः क्षेत्राभिग्रहभेदविशेषास्तासां, 'अट्ठत्ति अष्टकं तस्मिन् विहरन्तिविचरन्ति भिक्षार्थमिति शेषः, तथा यत्र
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy