SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५५ गच्छाचारपइण्णयं उपकरणपूतिः स्यात्, तत्त स्वयोगेन पृथक् संक्रामितं कल्पते, आधाकर्मिकवघारहिंगुलवणजीरकादियुक्तं भक्तपानपूतिः स्यात् । तथा 'आउत्ता कप्पतिप्पेसुत्ति आयुक्ता-उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः कल्पश्च त्रेपश्च कल्पत्रेपौ तयोः तत्र कल्पो-भोजनानन्तरं पात्रादिधावनरूपः, स च सामान्येन सर्वत्र कल्पसप्तकरूपः विशेषतस्तु जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथं ओदनमण्डकय-वक्षोदकुल्माषराजमुद्गचवलकचवलिकावृत्तचणकसामान्यचणक निष्पावतुबरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिः तृतीयस्तु सर्वत्रेति कल्पत्रयरूपो जघन्यः १, शाकपेयायवागूकोद्रवौदनराद्धमुद्गदाल्यादिसौवीरतीमनाद्यल्पलेपकृदाहारे गृहीते सति द्वौ कल्पौ पात्रस्य मध्ये ततो द्वौ बहिः तत एकः सर्वत्रेतिकल्पपञ्चकरूपो मध्यमः २, तथा दुग्धदधिक्षीरेयीतैलघृतगुडपानकादिबहुलेपकृदाहारे गृहीते कल्पत्रयं मध्ये ततो द्वौ बहिः ततो द्वौ सर्वत्रेतिकल्पसप्तकरूप उत्कृष्टः ३, इति वृद्धवादः । हस्ते तु मणिबन्धं यावत् कल्पो देय इति । त्रेपोअपानादिक्षालनलक्षणोऽत्र किञ्चिनिशीथसूत्रचतुर्थोद्देशकगतं लिख्यते'जे भिक्खू २ साणुप्पाए उच्चारपासवणभूमि ण पडिलेहेइ न पडिलिहंतं वा साइज्जइ । अस्य चूर्णिः-साणुप्पाओ णाम-चउभागावसेसचरिमा तीए उच्चारपासवणभूमीओ पडिलेहेयव्वाओ १ ।। जे भिक्खू २ तओ उच्चारपासवणभूमिओ ण पडिलेहेइ न पडिलेहंतं वा साइज्जइ २ ।। जे भिक्खू २ खुड्डागंसि थंडिलंसि उच्चारपासवणं परिठवइ परिठवंतं वा साइज्जइ ।।३।। अस्य चूर्णिः-रयणिपमाणाओ जं आरओ तं खुडुं तत्थ जो वोसिरइ तस्स मासलहुं आणादिया दोसा | वित्थारायामेणं थंडिल्लं जं भवे रयणिमेत्तं । चउरंगुलमोगाढं, जहन्नयं तं तु विच्छिन्नं ।।१।। वित्थारो-पोहत्तं अयामो-दिग्घत्तणं रयणी-हत्थो तम्माणे ठितं रयणिमित्तं जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चउरंगुलावगाढं एयप्पमाणं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy