________________
गच्छाचारपइण्णयं
१५४ पूर्वोक्तन्यायेन यथा इदं समस्तभिक्षुकेभ्यो दातव्यमिति कृतोद्देशिकं १, पाखण्डिकेभ्यो दातव्यमिति कृतसमुद्देशिकं २, श्रमणेभ्य इदं दातव्यमिति कृतादेशं ३, निर्ग्रन्थेभ्य इदं दातव्यमिति कृतसमादेशं ४, तथा च विवाहादिप्रकरणोपभुक्तावशेषं यन्मोदकचूर्णमुद्गौदनादिकं तदर्थमेवाग्नितापितगुडादिना पुनर्मोदकादि विधाय मुद्रादीन वा पुनः संस्कृत्य सचित्तजललवणप्रभृतिद्रव्यसन्मिश्रदध्यादिना करम्बकं वा कृत्वा चतुर्णां पूर्वोक्तन्यायेन संकल्पयति निर्दिशति च, यथा समस्तभिक्षुकेभ्यो दातव्यमिदमिति कम्मौदेशिकं १, पाखण्डिकेभ्यो दातव्यमिति कर्मसमुद्देशिकं २, श्रमणेभ्यो दातव्यमिदमिति कादेशिकं ३, निर्ग्रन्थेभ्यो दातव्यमिति कर्मसमादेशिक४मिति ।
अथ अभ्याहृत्तमाचीर्णानाचीर्णभेदाद् द्विधा, तत्राचीर्णमपि जघन्यमध्यमोत्कृष्टभेदात् त्रिधा, तत्र महत्याम्भोक्तृजनपङ्क्तौ दूरप्रवेशे तथाविधगृहे वा पङ्क्तिस्थितगृहत्रये वा साधुसङ्घाटकस्य भिक्षां जिघृक्षोस्तद्दानार्थं यद्भक्तादि कश्चिद्धस्तशतादानयति तदुत्कृष्टमाचीर्णाभ्याहृतं तत्रोपयोगसम्भवात्, हस्तपरिवर्तरूपं तु जघन्याचीर्णाभ्याहृतं, शेषं तु मध्यममिति | अनाचीर्णं तु हस्तशतात् परतः समानीतं तत्रोपयोगासम्भवात्, तच्च स्वपरग्रामादिभेदादनेकविधम्, तत्र जलस्थलपथयोरप्कायादिसत्त्वोपमर्दनात् संयमविराधना, जलनिमज्जनमकरतन्तुकण्टकाहिचौरश्वापदज्वराद्यत्पादकश्रमादिभ्यस्त्वात्मविराधना । अथ आधाकम्भॊद्देशिकांतिमत्रिकमिश्रजाताध्यवपूरकान्ति-मद्विकभक्तपानपूतिबादरप्राभृतिकलक्षणाऽविशोधिकोटीनामवयवेन मिलित शुद्धमप्यशनाद्यशुचिलवेनेव पूतिकर्म स्यात्, तच्च सूक्ष्मबादरभेदेन द्विविधम्, तत्र शुद्धमप्यशनादिकमाधाकर्मभक्तादिगन्धबाष्पाग्निधूमैः सह मिलितं सूक्ष्मपूतिस्तच्चाचीर्णत्वादशक्यपरिहारत्वाच्च न दोषकारि । उपकरणभक्तपानभेदेन बादरमपि द्विविधम्, तत्राधाकर्मिकचुल्लीस्थाल्यादिचट्ठककडच्छुकोदुखलिकादिषु गतं शुद्धमप्यशनादि