________________
१५३
गच्छाचारपइण्णय मिथ्यात्वं गच्छेत्, उड्डाहं वा कुर्यात् अहो अमी असंचयिकाः, परिवासिते तु संयमात्मविराधना भवति, सक्तुकादिषु धार्यमाणेषु ऊरणिकादयः प्राणजातयः सम्मूर्च्छन्ति, पूपलिकादिषु लालादिसम्मूर्च्छना च भवति, उंदरो वा तत्र तर्कणं-अभिलाषं कुर्वन् पार्श्वतः परिभ्रमन् मार्जारादिना भक्ष्यते, एवमादिका संयमविराधना, आत्मविराधना च, तत्राशनादौ लालाविषः सर्पो लालां मुञ्चेत्, त्वग्विषो वा जिघ्रन् निःश्वासेन विषीकुर्यात् उंदरो वा लालां मुञ्चेत्, द्रवे चाहारे एते वक्ष्यमाणा दोषा भवन्तीत्यादि ।' अथ औद्देशिकमोघविभागभेदाद् द्विधा, तत्र स्वार्थमग्निज्वालनस्थाल्यारोपणादिकपाकाद्यारम्भे यः कश्चिदागमिष्यति, तस्य दानार्थं यः कियानपि भागः कल्पते तदोघौदेशिकं विभागौदेशिकं तु उद्दिष्ट १ कृत २ कर्मे ३ ति मूलभेदानां प्रत्येकं उद्देशसमुद्देशादेशसमादेशरूपोत्तरभेदैर्वादशविधं यथा उद्दिष्टोद्देशं १ उद्दिष्टसमुद्देशं २ उद्दिष्टादेशं ३ उद्दिष्टसमादेशं ४ कृतोद्देशं ५ कृतसमुद्देशं ६ कृतादेशं ७ कृतसमादेशं ८ कर्मोद्देशं ९ कर्मसमुद्देशं १० कर्मादेशं ११ कर्मसमादेशं १२ इति ।। उत्तरभेदानां अर्थो यथा समस्तार्थिनां निमित्तं कल्पितमशनाद्युद्देशं १, चरकादीनां निमित्तं विवक्षितमशनादिसमुद्देशं २, निर्ग्रन्थशाक्यतापसगैरिकाजीविकानां निमित्तं कल्पितमशनाद्यादेशं ३, साधूनां निमित्तं कल्पितमशनादिसमादेशं ४, तत एवं योजना विवाहादिप्रकरणे स्वजनादिभुक्तोद्धरितमोदनतीमनदधिमोदकचूर्णादिभक्तं तदवस्थमेव चतुर्णां पूर्वोक्तानां निमित्तमुद्दिशतिमनसा संकल्पयति वाचा वा निर्दिशति गृहस्थः, यथा समस्तभिक्षुकेभ्य इदं दातव्यमित्युद्दिष्टौदेशिकं १, पाखण्डिकेभ्य इदं दातव्यमिति उद्दिष्टसमुद्देशिकं २, श्रमणेभ्य इद दातव्यमित्युद्दिष्टादेशिकं ३, निर्ग्रन्थेभ्य इदं दातव्यमित्युदिष्टसमादेशिकं ४, तथा विवाहादिप्रकरणे भुक्तोद्धरितमोदनमोदकचूर्णादिकं दधितीमनविकटफाणितनिर्भञ्जनघृतादिना तदर्थमेव मिश्रं करम्बकादिलक्षणं कृत्वा मनसा संकल्पयति, वाचा वा निर्दिशति,