SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४७ गच्छाचारपइण्णय जीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः १, भुव उपरि चतुरङ्गुलप्रमिते आकाशे जङ्घानिक्षेपोत्क्षेपनिपुणा जङ्घाचारणाः २, नानाद्रुमफलान्युपादाय फलाश्रयप्राण्यविराधनेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फलचारणाः ३ नानाद्रुमलतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बनसङ्गगतयः पुष्पचारणाः ४, नाना वृक्षगुल्मवीरुल्लताविताननानाप्रवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्तश्चरणोत्क्षेपपटवः पत्रचारणाः ५, चतुर्योजनशतोच्छ्रितस्य निषधस्य नीलस्य वाऽद्रेष्टंकच्छिन्नां श्रेणिमुपादायोपर्यधो वा पादनिक्षेपोत्क्षेपपूर्वकमुत्तरणावतरणनिपुणाः श्रेणिचारणाः ६, अग्निशिखामुपादाय तेजःकायिकानविराधयन्तः स्वयमदह्यमानाःपादविहारनिपुणा अग्निशिखाचारणाः ७, धूमवर्तितिरश्चीनामूर्ध्वगां वा आलम्ब्यास्खलितगमनास्कन्दिनो धूमचारणाः ८, नीहारमवष्टभ्याप्कायिकपीडामजनयन्तो गतिमसङ्गाश्नुवाना नीहारचारणाः ९, अवश्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणाः १०, नभोवम॑नि प्रविपततजलधरपटलपटास्तरणे जीवानुपघातिचङ्क्रमणप्रभवो मेघचारणाः ११, प्रावृषेण्यादिजलधरादेर्विनिर्गतवारिधारावलम्बनेन प्राणिपीडामन्तरेण यान्तो वारिधाराचारणाः १२, कुब्जवृक्षान्तरालभाविनभःप्रदेशेषु कुब्जवृक्षादिसम्बद्धमर्कटकतन्त्वालम्बनपादोद्धरणनिक्षेपावदाता मर्कटकतन्तूनच्छिन्दन्तो यान्तो मर्कटकन्तुचारणाः १३, चन्द्रार्कग्रहनक्षत्राद्यन्यतमज्योतिरश्मिसम्बन्धेन भुवीवपादविहारकुशला ज्योतिरश्मिचारणाः १४, पवनेष्वनेकदिग्मुखोन्मुखेषु प्रतिलोमानुलोमवर्त्तिषु तत्प्रदेशावलीमुपादाय गतिमस्खलितचरणविन्यासमास्कन्दन्तो वायुचारणाः १५, इति चारणाश्च सातिरेकानि सप्तदशयोजनसहस्राणि ऊर्ध्वमुत्पत्य पश्चात्तिर्यग्गच्छन्ति, उक्तञ्च समवायांगे, 'इमीसेणं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ साइरेगाइं सत्तरसजोअणसहस्साइं उड्ढे उप्पइत्ता तओ पच्छा चारणाणं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy