SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १४८ तिरियगती पवत्तति त्ति' १० । तथा आशीविषलब्धिःनिग्रहानुग्रहसामर्थ्य यदाह-'तपश्चरणमाहात्म्यात्, गुणादितरतोऽपि वा । आशीविषाः समर्थाः स्युः, निग्रहेऽनुग्रहेऽपि च ||१||११|| तथा केवलिलब्धि १२, गणधरलब्धि १३, पूर्वधरलब्धि १४, अर्हल्लब्धि १५, चक्रवर्तिलब्धि १६, बलदेवलब्धि १७, वासुदेवलब्धयः प्रतीताः १८ । 'खीरमहुसप्पिआसव'त्ति पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमर्द्धार्द्ध क्रमेण दीयते यावदेकस्याः क्षीरं तत् चातुरिक्यमित्यागमे गीयते तदिह क्षीरं ज्ञेयम्, मध्वाद्यप्यजीवसम्पातिशर्करादि किंचिद्विशिष्टं द्रव्यं ज्ञेयम्, ततो येषां पात्रपतित कदन्नमपि क्षीरमधुसीरसवीर्यविपाकं जायते, वचनं वा शारीरमानसदुःखप्राप्तानां देहिनां क्षीरादिवत्सन्तर्पकं भवति, ते क्षीराश्रवा मध्वाश्रवाः सर्पिराश्रवा उपलक्षणत्वादमृताश्रवा इक्षुरसाश्रवाश्च १९ । तथा 'कोह्रबुद्धित्ति कोष्टबुद्धयः कोष्टागारिकस्थापितानामसङ्कीर्णानामविनष्टानां भूयसां धान्यबीजानां यथा कोष्टेऽवस्थानं तथा परोपदेशादवधारितानां श्रोतानामर्थग्रन्थबीजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात् कोष्टबुद्धयः २० । तथा 'पयाणुसारित्ति पदानुसारिणस्त्रिधा अनुश्रोतःपदानुसारिणः १ प्रतिश्रोतःपदानुसारिणः २ उभयपदानुसारिणश्च ३, तत्रादिपदस्यार्थं ग्रन्थं च परत उपश्रत्य आ अन्त्यपदादर्थग्रन्थविचारणासमर्थपटुतरमतयोऽनुश्रोतःपदानुसारिबुद्धयः, अन्त्यपदस्यार्थं ग्रन्थं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादाअर्थग्रन्थविचारपटवः प्रतिश्रोतःपदानुसारिबुद्धयः, मध्यपदस्यार्थं ग्रन्थं च परकीयोपदेशादधिगम्याद्यन्तावधिपरिच्छिन्न-पदपदसमूहप्रतिनियतार्थग्रन्थोदधिसमुत्तरणसमर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिबुद्धयः २१ । १ 'तह बीयबुद्धि' त्ति तथा बीजबुद्धयः १उत्कृष्टसुमतीकृते क्षेत्रे क्षित्युदकाद्यनेककारणविशेषापेक्षं बीजमनुपहतं यथाऽनेकबीजकोटीप्रदं भवति तथैवेह ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थबीजश्रवणे
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy