SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १४६ गृह्णात्येकमपीन्द्रियम् । यत्प्रभावेण सम्भिन्न-श्रोतोलब्धिस्तु सा मता ||१|| ६, तथा 'ओहित्ति अवधिज्ञानलब्धिमूर्त्तद्रव्यविषयं ज्ञानम्, उक्तञ्च-'द्रव्याणि मूर्तिमन्त्येव, विषयो यस्य सर्वतः । नैयत्यरहितं ज्ञानं, तत्स्यादवधिलक्षणम् ||१|| ७ तथा ऋजुमतिलब्धिरर्द्धतृतीयोच्छ्रया-गुलन्यूनमनुष्यक्षेत्रवर्त्तिसज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुर्मनः पर्यायज्ञानभेदः, विपुलमतिलब्धिस्तु विशुद्धतरः सम्पूर्णमनुष्यक्षेत्रवर्ति-सज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतुर्मनःपर्यायज्ञानभेद एव, उक्तञ्च-स्यान्मनःपर्ययोज्ञानं, मनुष्यक्षेत्रवर्तिनाम् । प्राणिनां समनस्कानां, मनोद्रव्यप्रकाशकम् ।।१।। ऋजुश्च विपुलश्चति, स्यान्मनःपर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां, विपुलस्तु विशिष्यते ।।२।। ८,९, तथा 'चारण 'त्ति अतिशयचरणाश्चारणास्ते च द्विधा, जंघाचारणा विद्याचारणाश्च, अथवाऽन्येऽपि बहुभेदाश्चारणा भवन्ति, तथा चोक्तं योगशास्त्रवृत्तावेव 'द्विविधाश्चारणा ज्ञेया, जंघाविद्योत्थशक्तितः । तत्राद्या रुचकद्वीपं, यान्त्येकोत्पातलीलया ।।१।। वलंतो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरे समायान्ति, द्वितीयेन यतो गताः ।।२।। ते चोर्ध्वगत्यामेकेन, समुत्पतनकर्मणा । गच्छन्ति पाण्डुकवनं, मेरुशैलशिरस्थितम् ||३|| ततोऽपि वलिता एको-त्पातेनायान्ति नन्दनम् । उत्पातेन द्वितीयेन, प्रथमोत्पातभूमिकाम् ।।४।। विद्याचारणास्तुगच्छ-न्त्येकेनोत्पातकर्मणा । मानुषोत्तरमन्येन, द्वीपं नन्दीश्वरावयम् ||५|| तस्मादायान्ति चैकेनोत्पातेनोत्पतिता यतः । यान्त्यायान्त्यूर्वमार्गेऽपि तिर्यग्यानक्रमेण ते ||६|| अन्येऽपि बहुभेदाश्चारणा भवन्ति, तद्यथा-आकाशगामिनः पर्यङ्कासनावस्थानिषण्णाः कायोत्सर्गशरीरा वा पादोत्क्षेपनिक्षेपक्रमादिना व्योमचारिणः । केचत्तु जल १ जङ्घा २ फल ३ पुष्प ४ पत्र ५ श्रेण्य६ग्निशिखा ७ धूम ८ नीहारा ९ वश्याय १० मेघ ११ वारिधारा १२ मर्कटकतन्तु १३ ज्योतीरश्मि १४ पवनाद्यालम्बनगतिपरिणामकुशलाः १५, जलमुपेत्य वापीनिम्नगासमुद्रादिष्वप्कायिक
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy