SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४५ गच्छाचारपइण्णयं 'आमोसहिलद्धि' त्ति आमर्शो-हस्तादिना स्पर्शः औषधिर्यस्य स आम\षधिस्तस्य स एव वा लब्धिलब्धिमतोरभेदविवक्षणाल्लब्धिःसम्पदामोषधिरेवमग्रेऽपि ज्ञेयम् १ । 'विप्पोसहि' त्ति विप्रुड्-उच्चारः पुरीषमिति यावत् औषधिर्यस्य स तथा तस्य स एव वा लब्धिः विपुडौषधिलब्धिः २ । 'खेलोसहित्ति खेलः-श्लेष्मः ३ । 'जल्लोसहित्ति जल्लः-कर्णदन्तनासिकानयनजिह्वोद्धवः शरीरसम्भवश्च मलः ४ । 'सव्वोसहित्ति सर्वे विण्मूत्रकेशनखादय उक्ता अनुक्ताश्च औषधयो यस्य स तथा, उक्तं च योगशास्त्रप्रथमप्रकाशवृत्तौ श्रीहेमचन्द्रसूरिपादैः- योगिनां कायसंस्पर्शः, सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् ||१|| योगिनां योगमाहात्म्यात्, पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ||२|| तथाहि योगमाहात्म्याद्योगिनां कफबिन्दवः । सनत्कुमारादेरिव, जायन्ते सर्वरुक्छिदः ।।३।। मलः किल समाम्नातो, द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मैको, द्वितीयस्तु वपुर्भवः ||४|| योगिनां योगसम्पत्ति-माहात्म्याद् द्विविधोऽपि सः । कस्तूरिका परिमलो, रोगहा सर्वरोगिणाम् ।।५।। नखाः केशा रदाश्चान्य-दपि योगिशरीरगम् । भजते भेषजीभाव-मिति सर्वौषधिः स्मृता ||६|| तथाहि तीर्थनाथानां, योगभृच्चक्रवर्त्तिनाम् । देहास्थिशकलस्तोमः, सर्वस्वर्गेषु पूज्यते ।।७।।' किञ्च-मेघमुक्तमपि वारि यदङ्गसङ्गमात्रान्नदीगतमपि सर्वरोगहरं भवति, तथा विषमूर्छिता अपि यदीयाङ्गसङ्गिवातस्पर्शादेव निर्विषी भवन्ति, विषसम्पृक्तमप्यन्नं यन्मुखप्रविष्टमविषं भवति, महाविषमव्याधिबाधिता अपि यद्वचः श्रवणमात्राद्दर्शनमात्राच्च वीतविकारा भवन्ति, एषः सर्वोऽपि सर्वौषधिप्रकार इति ५ । तथा 'संभिन्नेत्ति पदैकदेशे पदसमुदायोपचारात् सम्भिन्नश्रोतो लब्धिः सम्भिन्नानि-एकैकशः सर्वविषयैः संमतानि श्रोतांसि-इन्द्रियाणि यस्य स तथा तस्य लब्धिःसम्मिन्नश्रोतो लब्धिः, उक्तञ्च-'सर्वेन्द्रियाणां विषयान्,
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy