________________
गच्छाचारपइण्णयं
१४० परवशः किं कुर्वन्नित्याह 'अज्जाणं ति 'क्वचिद् द्वितीयादेः (८-३-१३४) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठीविधानात् आर्याः-साध्वीरनुचरन्साध्वीनां किङ्करत्वं कुर्वन्नित्यर्थः तुः-पुनरर्थे इति । गाथाछन्दः ||६८ ।।
खेलपडिअमप्पाणं, न तरइ जह मच्छिआ विमोएउं । अज्जाणुचरो साहू, न तरइ अप्पं विमोएउं ।।६९ ।। श्लेष्मपतितमात्मानं, न शक्नोति यथा मक्षिका विमोचयितुम् । आर्यानुचरन् साधुर्न शक्नोत्यात्मानं विमोचयितुम् ॥६९॥
व्याख्या - श्लेष्मपतितमात्मानं न शक्नोति, यथा मक्षिका विमोचयितुंपृथक् कत्तु एवमार्यानुचरः-साध्वीपाशबद्धपादः साधुर्न शक्नोति आत्मानं विमोचयितुं जिनाज्ञया ग्रामादिषु विहरणार्थमिति | गाथाछन्दः ||६९ ।।
साहुस्स नत्थि लोए अज्जासरिसी हु बंधणे उवमा । धम्मेण सह ठवंतो, नय सरिसो जेण असिलेसो ।।७०।। साधोर्नास्ति लोके, आर्यासदृशी हु बन्धने उपमा । धर्मेण सह स्थापयतो न च सदृशो जानीह्यश्लेषः ।।७०॥
व्याख्या - लोके-जगति साधोः-मुनेरार्यासदृशी हु-निश्चित बन्धने उपमा नास्ति, अविधिना आर्याः परिवर्त्तयतः साधोरार्यासदृशमन्यत्कर्मबन्धस्थानं नास्तीत्यर्थः, तथा धर्मेण सह वर्तमानस्येति शेषः, 'ठवितो त्ति विभक्तिव्यत्ययात् आर्याः स्थापयतः प्रक्रमाद्धर्मे एव यासां सदृशोऽश्लेषोअबन्धनं नच नैवास्ति, कोऽर्थः यः स्वयं धर्मवान् विधिपरिवर्त्तनेनार्या धर्मे स्थापयति तस्यार्यासदृशमन्यत कर्म(1)बन्धस्थानमुपलक्षणत्वात्कर्मनिर्जरास्थानं च नैवास्तीत्यर्थः, तथा चोक्तं-निशीथपंचदशोद्देशभाष्यचूर्योः प्रलम्बाधिकारे-'पुच्छ सहुभीअपरिसो, चउभंगे पढमगे अणुण्णातो | सेसतिगे नाणुण्णा, गुरुगा परियट्टणे जं च ||१|| एत्थ सीसो पुच्छति, जं सुत्तं