________________
१३९
गच्छाचारपइण्णयं वृष्ट्याभ्याहतो गुहामनुप्रविष्टः, राजीमती स्वामिनं वन्दित्वा प्रतिश्रयमागच्छन्ती वृष्ट्यान्तरा तामेव गुहामायाता । रथनेमिस्तां दृष्ट्वाऽध्युपपन्नः, सा ज्ञात्वेदमवोचत् ।।१।। अहं च भोगरायस्स, तं च सि अंधगवन्हिणो। मा कुले गंधणा होमो, संजमं निहुओ चर ।।२।। अहं च भोगराज्ञःउग्रसेनस्य दुहितेति गम्यते, त्वं च भवस्यन्धकवृष्णे :- समुद्रविजयस्य सुत इति गम्यते, अतो मा एकैकप्रधाने कुल आवां गन्धनौ भूवःजघन्यसर्पतुल्यावित्यर्थः, अतः संयमं निभृतश्चर' इत्यादि गाथाछन्दः
।।६६।।
सव्वत्थ इत्थवग्गंमि, अप्पमत्तो सया अवीसत्थो । नित्थरइ बंभचेरं, तव्विवरीओ न नित्थरइ ||६७ ।।
सर्वत्र स्त्रीवर्गे, ऽप्रमत्तः सदा अविश्वस्तः । निस्तरति ब्रह्मचर्यं तद्विपरीतो न निस्तरति ॥६७॥
व्याख्या-सर्वत्र-सर्वस्मिन् प्रव्रजिताप्रव्रजितरूपे स्त्रीवर्गे अप्रमत्तःनिद्राविकथादिप्रमादरहितः सदा सर्वकालं अविश्वस्तो- विश्वासरहितश्च सन् निस्तरति-पालयतीत्यर्थः, ब्रह्मचर्यं -मैथुनत्यागरूपं तद्विपरीतःउक्तविशेषणरहितो न निस्तरतिन निर्वहति ब्रह्मचर्यमिति । गाथाछन्दः ।।६७ ।।
सव्वत्थे वित्तो, साहू सव्वत्थ होइ अप्पवसो । सो होइ अणप्पवसो, अज्जाणं अणुचरंतो उ ।। ६८ ।। सर्वार्थेषु विमुक्तः साधुः सर्वत्रात्मवशो भवति । स भवत्यनात्मवशो आर्यायाः अनुचरन् तु ॥६८॥
व्याख्या-सर्वार्थेषु विमुक्तः-सर्वपदार्थेषु ममतारहितः साधुर्मोक्षसाधकः सर्वत्रात्मवशो भवति न कुत्रापि परवशः, स पुनर्मुनिर्भवत्यनात्मवशः