SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ___ १३८ गच्छाचारपइण्णयं जनवचनीयतां किं पुनर्न प्राप्नुयात् अपि तु प्राप्नुयादेवेत्यर्थः । गाथाछन्दः ||६५ ।। एतदपि कुत इत्याह जइवि सय थिरचित्तो, तहवि संसग्गिलद्धपसराए । अग्गिसमीवे व घयं, विलिज्ज चित्तं खु अज्जाए ।।६६ ।। यद्यपि स्वयं स्थिरचित्तस्तथापि संसर्या लब्धप्रसरया । अग्निसमीपे इव घृतं विलीयेत चित्तं खु आर्ययाः ॥६६॥ व्याख्या - यद्यपि स्वयमात्मना स्थिरचित्तो-दृढान्तःकरणः साधुः तथापि तस्येति शेषः, आर्यायाः संसा प्राकृतत्वात् विभक्तिलोपः, लब्धप्रसरया-प्रसरणवत्या अग्निसमीपे घृतमिव खु-निश्चयेन चित्तं-मनो विलीयेत-शैथिल्य भजेत् अथवा संसर्गिलब्धप्रसरया आर्यया तस्य चित्तं विलीयेत । तत्र संसर्यां गमनागमनादिना संगत्यां मुनिना लब्धप्रसरःकियत्कालमङगोपाङगालोकनालापादिकरणरूपो. यस्याः सा तथा तया दृष्टमात्रया राजीमत्या रथनेमिमुनेरिव तथा हि-यदा श्रीनेमिः प्रव्रजितस्तदा रथनेमियेष्ठभ्राता राजीमतीमुपचरति सा मामिच्छेदिति सा भगवती निर्विन्नकामभोगा अन्यदा तदभिप्रायं ज्ञात्वा मधुघृतसंयुता पेया पीता तस्मिन् आगते तया मदनफलाघ्राणेन वान्ता उक्तञ्च-एतां पेयां पिब, रथनेमिरूचे कथं वांतं वीयते ? सा प्राह-अहं श्रीनेमिना वान्ता कथं पातुमिच्छसि । धिर त्थु ते जसोकामी, जो तं जीवियकारणा । वंत इच्छसि आवेउं सेअं ते मरणं भवे ||१|| धिगस्तु ते तव पौरुषमिति गम्यते हे यशस्कामिन् ! सासूयं क्षत्रियामन्त्रणं अथवाऽकारप्रश्लेषादयशःकामिन् धिगस्तु तव यस्त्वं जीवितकारणात्-असंयमजीवितहेतोर्वान्तमिच्छस्यापातुं श्रेयस्ते मरणं भवेत् । रथनेमिः सम्बुद्धः प्रव्रजितः राजीमत्यपि प्रव्रजिता, अन्यदा रथनेमिरवत्यां भिक्षामाहिण्ड्य स्वामिसकाशमागच्छन्
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy