________________
१३७
गच्छाचारपइण्णयं
नित्यमाहुरबला इति कामिनीनाम् । याभिर्विलोलतरतारकदृष्टिपातैः, शक्रादयोऽपि विजितास्त्वबलाः कथं ताः || ६ || जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्यं, प्रियः को नाम योषिताम् ||७ || स्मितेन भावेन च लज्जया भिया, पराङ्मुखैरर्द्धकटाक्षवीक्षितैः । वचोभिरीर्ष्याकलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः ||८|| आर्यासंसगवर्जने कारणमाह-खुः यस्मादर्थे ततोऽयमर्थः यस्मात्कारणात् आर्यानुचरः साधुः - मुनिर्लभते प्राप्नोति अकीर्ति- असाधुवादं अचिरेणेतिस्तोककालेनेति । गाथाछन्दः ।। ६३ ।।
थेरस्स तवस्सिस्स व, बहुस्सुअस्स व पमाणभूयस्स । अज्जासंसग्गीए जणजंपणयं हविज्जाहि ।। ६४ । ।
स्थविरस्य तपस्विनो वा, बहुश्रुतस्य वा प्रमाणभूतस्य । आर्यासंसर्ग्या जनवचनीयता भवेत् ॥६४॥
व्याख्या - स्थविरस्य-वृद्धस्य तपस्विनो वा तपोयुक्तस्य बहुश्रुतस्य वा-अधीतबह्वागमस्य प्रमाणभूतस्य वा सर्वजनमान्यस्य एवंविधस्यापि साधोः आर्यासंसर्ग्या-साध्वीपरिचयेन 'जणजंपणयं' ति जनवचनीयताजनापवाद इत्यर्थः भवेदिति । गाथाछन्दः || ६४ || अथ यद्येवंविधस्याप्यार्यासंसर्ग्या जनापवादः स्यात् तर्हि एतद्विपरीतस्य का कथेत्याह
किं पुण तरुणो अबहुस्सुओ अ नय वि हु विगिट्ठतवचरणी । अज्जासंसग्गीए, जणजंपणयं न पाविज्जा । । ६५ ।।
किं पुनस्तरुणोऽबहुश्रुतश्च न चापि हु विकृष्टतपश्चरणः । आर्यासंसर्ग्या जनवचनीयतां न प्राप्नुवत् ॥६५॥
व्याख्या - तरुणो- युवा अबहुश्रुतश्च - आगमपरिज्ञानरहितः न चापि हु विकृष्टतपश्चरणो-न- दशमादितपः कर्त्ता एवंविधो मुनिरार्यासंसर्ग्या