________________
गच्छाचारपइण्णयं
.- १३६ वज्जासणी, असलिलप्पलावो समुद्दरओ, अवियाइं तासिं इत्थियाणं अणेगाणि नामनिरुत्ताणि, पुरिसे कामरागपडिबद्धे नाणाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयंति । पुरिसाणं नो अन्तो एरिसो अरी अत्थि त्ति नारीओ, तं जहा-नारीसमा न नराणं अरीओ नारीओ १, नाणाविहेहिं कम्मेहिं सिप्पयाइहिं पुरिसे मोहंति त्ति महिलाओ २, पुरिसे (प)मत्ते करंति त्ति पमयाओ ३, महंतं कलिं जणयंति त्ति महिलियाओ ४, पुरिसे हावभावमाईहिं रमंति त्ति रामाओ ५, पुरिसे अंगाणुराए करंति त्ति अंगणाओ ६, नाणाविहेसु जुद्धभंडणसंगामाडवीसु मुहाण गिन्हणसीउन्हदुक्खकिलेसमाईसु पुरिसे लालंति त्ति ललणाओ ७, पुरिसे जोगनिउणेहिं वसे ठावंति त्ति जोसियाओ ८, पुरिसे नाणाविहेहिं भावेहिं वण्णंति त्ति वणियाओ ।९ · इत्यादि तथा दशवैकालिकेऽप्युक्तं 'विभूसा इत्थिसंसग्गी, पणीअं रसभोअणं । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ।।१।।' तथाऽन्यैरप्युक्तं 'आवतः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्डः, स्त्रीयन्त्रं केन सृष्टं विषमविषमयं सर्वलोकस्य पाशः ||१|| नो सत्येन मृगाङ्क एव वदनीभूतो न चेन्दीवरद्वन्द्व लोचनतां गतं न कनकैरप्यङ्ग्यष्टिः कृता । किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि, त्वङ्मांसास्थिमयं वपुर्मुगदृशां मत्वा जनः सेवते ।।२।। यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिधरं, मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधुः । इदं तत्किम्पाकद्रुमफलमिवातीव विरसं, व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ।।३।। व्यादीLण चलेन वक्रगतिना तेजस्विना भोगिना, नीलाब्जद्युतिनाऽहिना वरमहं दष्टो न तच्चक्षुषा । दष्टे संति चिकित्सका दिशि दिशि प्रायेण पुण्यार्थिनो, मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न वाऽप्यौषधम् ||४|| संसार तव निस्तार-पदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ।।५।। नूनं हि ते कविवरा विपरीतबोधा, ये