________________
१३४
गच्छाचारपइण्णयं
यत्र चार्याभिः समं, स्थविरा अपि नोल्लपन्ति गतदशनाः । न च ध्यायन्ति स्त्रीणा-मङ्गोपाङ्गानि स गच्छः ॥६२॥
व्याख्या-यत्र च गच्छे आर्याभिः-साध्वीभिः समं-सार्धं स्थविरा अपि साधवः किं पुनस्तरुणाः नोल्लपन्ति-नालापसंलापादि कुर्वन्ति, किंभूताः गताः-नष्टाः दशनाः-दन्ताः येषां ते गतदशनाः न च ध्यायन्ति-चिन्तयन्ति स्त्रीणां-नारीणां अङ्गोपाङ्गानि, तत्राङ्गान्यष्टौ बाहुद्वयं ऊरुद्वयं पृष्टिः शिरः हृदयं उदरं च, उपाङ्गानि-कर्णनेत्रनासिकादीनि तं गच्छं वदन्तीति शेषः इति । गाथाछन्दः ||६२।। .
वज्जेह अप्पमत्ता, अज्जासंसग्गि अग्गिविससरिसी । अज्जाणुचरो साहू, लहइ अकित्तिं खु अचिरेण ।।६३ ।। वर्जयताप्रमत्ता-आर्यासंसर्गीः अग्निविषसदृशीः । आर्यानुचरः साधु-र्लभतेऽकीर्ति खु अचिरेण ॥६३।।
व्याख्या-वर्जयत-मुञ्चत अप्रमत्ताः-प्रमादवर्जिताः सन्तो भो साधवो यूयं का आर्यासंसर्गीः-साध्वीपरिचयान् अत्र शसो लोपः प्राकृतत्वात् कथंभूताः आर्यासंसर्गीः अग्निविषसदृशीरुपलक्षणत्वात् व्याघ्रविषधरादिसदृशीश्च यत उक्तं स्त्रियोऽधिकृत्य तंदुलवैचारिकप्रकीर्णके-'जाओ चिय इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहेहिं वन्नियाओ वि एरिसाओ तं जहा-पगइ विसमाओ, पियरूसणाओ, पियवयणवल्लरीओ, कइअवपेमगिस्तिडीओ, अवराहसहस्सधरणीओ, पभवो रोगस्स, विणासो बलस्स, सूणा पुरिसाणं, नासो लज्जाए, संकरो अविणयस्स, निलओ नियडीणं, खाणी वइरस्स, सरीरं सोगस्स, भेओ मज्जायाणं, आसओ रागस्स, निलओ दुच्चरियाणं, माईए सम्मोहो, खलणा नाणस्स, चलणं सीलस्स, विग्यो धम्मस्स, अरी साहूणं,