________________
१२३
गच्छाचारपइण्णयं कर्त्तयन्त्यपि यदि सूत्रं तन्तुश्वेतताविधायिता शंखचूर्णेन हस्तौ न धवलयति धवलितौ वा शौचनाग्रहशीलतया न प्रक्षालयति तदा कल्पते २२, लोढयन्ती २३, विकीर्णयन्ती २४, पिंजयन्ती च कर्पासं २५, यदि तदस्थिकान् न संघट्टयति देयद्रव्यखरंण्टितकरधावने जलं च न विराधयति तदा कल्पत इति, शेषेषु १५ षट्कायव्यग्रहस्तादिष्वपवादाभावादग्रहणमिति २ । ग्रासैषणायां संयोजनादिपञ्च दोषाः तत्र संयोजनाप्रमाणयोः किञ्चिदुच्यते विशिष्टस्वादनिमित्तं दुग्धदध्योदनादीनां विशिष्टद्रव्याणां मीलनं संयोजना। सा च द्विधा वसतेरन्तर्बहिर्भेदात्, अन्तः संयोजनापात्रकवलवदनभेदात् त्रिधा, तत्र पात्रे मण्डकगुडघृतादिरसगृद्ध्या संयोज्य भक्षयति एषा पात्रसंयोजना, एतान्येव कवले हस्तस्थिते संयोजयति एषा कवलसंयोजना, वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति, यद्वा मण्डकादिकं पूर्वं प्रक्षिप्य पश्चाद् गुडादिकं प्रक्षिपति एषा वदनसंयोजना, किञ्च उपकरणं गवेषयत एव साधोश्चोलपट्टकाद्याप्तौ विभूषाप्रत्ययमन्तरकल्पं याचित्वा परिभुञ्जानस्य बहिरुपकरणसंयोजना वसतौ चागत्य तथैव परिभुजानस्य अन्तरुपकरणसंयोजनेत्याद्यपि द्रष्टव्यमिति । कारणे तु संयोजनापि भवति । यदाह - ‘रसहेउं संजोगो, पडिसिद्धो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो, सुहोचिओऽभाविओ जो य ।।१।।' रसहेतोः प्रतिषिद्धसंयोगो ग्लानार्थं तु कल्पते यता यस्य अभक्तछन्दो-भक्तारुचिर्यश्च सुखोचितो राजपुत्रादिर्यश्चाद्याप्यभावितो-ऽपरिणतचारित्रः शैक्षस्तन्निमित्तं संयोगोऽपि कल्पते इति, प्रमाणद्वारे सामान्येन सर्वमुदरं षड्भिर्भागैर्विभज्यते तत्र भागत्रयमशनतकशाकादिना पूर्यते द्वौ भागौ पानीयेन षष्ठं तु भागं वायुप्रविचारणार्थमूनं कुर्यात्, विशेषेण तु कालापेक्षया अतिशीतकाले द्रव्यस्यैको भागः १ चत्वारो भक्तस्य ४ एकोऽनिलाय १, मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य २ त्रयस्तु भागा भक्तस्य ३ एकोऽनिलाय १, अत्युष्णकाले त्रयो भागा द्रवस्य द्वौ भक्तस्य एकोऽनिलाय, मध्यमोष्णकाले