SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १२४ भाग पानीयस्य त्रयो भक्तस्य एकोऽनिलायेति । गाथाछन्दः । । ५७ ।। पूर्वगाथायां 'बायालीसेसणाकुसले 'त्ति अनेन मुनिर्निर्दोषमाहारं भुञ्जीतेति परमार्थत उक्तम्, अथ तमपि न रूपाद्यर्थमश्नीयादिति दर्शयन्नाह तंपि न रूवरसत्थं, न य वण्णत्थं न चेव दप्पत्थं । संजमभरवहणत्थं, अक्खोवंगं व वहणत्थं ।। ५८ ।। तमपि न रूपरसार्थं न च वर्णार्थं न चैव दर्पार्थम् । संयमभरवहनार्थम्, अक्षोपाङ्गमिव वहनार्थम् ॥५८॥ व्याख्या तमपि निर्दोषाहारमपि न रूपरसार्थं रूपं च - लावण्यं रसश्च-भोजनास्वादस्तदर्थं, न च नैव वर्णार्थं-शरीरश्लाघार्थं गौरताद्यर्थं वा, न चैव दर्पार्थं-अनङ्गवृद्ध्यर्थं, किन्तु संयमभरवहनार्थं-चारित्रभारनिर्वहणार्थं शरीरस्याधारमात्रभूतं साधुर्दद्यादिति शेषः । अत्र दृष्टान्तमाह-‘अक्खोवंगं व वहणत्थं' ति अक्षोपाङ्गमिव वहनार्थं अयमभिप्रायः यथा अक्षस्य धुर उपाङ्गो ऽभ्यञ्जनं नवनीतादि तच्च तावन्मात्रमेव दीयते यावता शकटमनायासेन भारमुद्वहति, न चास्तीति कृत्वा प्रकामं नवनीतादेरभ्यञ्जनस्य दानं निष्फलत्वात् एवं साधुनापि यावता दशविधचक्रवालसामाचारीस्वाध्यायभिक्षाचङ्क्रमणादिक्रियासमर्थं शरीरादि भवति तावन्मात्रमेवाभ्यवहार्यं, नातिरिक्तं रूपाद्यर्थमिति । गाथाछन्दः ।।५८ ।। अथेह षड्भिः कारणैः साधोराहारमाहारयति-षड्भिरेव च कारणैराहारं परित्यजति तत्र यैः षड्भिः कारणैराहारमाहारयति तानि दर्शयति - वेण १ वेयावच्चे २, इरिअट्ठाए य ३ संजमट्ठाए ४ । तह पाणवत्तिआए ५, छट्टं पुण धम्मचिंताए । । ५९।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy