SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ .. . १२२ गच्छाचारपइण्णयं ग्राह्यं ज्वरे शिवे सति ६, अन्धोऽपि यदि देयमन्येन धृतं ददाति स्वयं श्राद्धश्च यदि वा स एवान्धोऽन्येन विधृतः सन् ददाति तर्हि ततो ग्राह्यम् ७, मण्डलप्रसूतिकुष्टी सागारिकाभावे चेद्ददाति तर्हि ततः कल्पते न शेषकुष्टिनः ८, पादुकारूढोऽपि यदि भवत्यचलस्तदा कारणे सति कल्पते ९, पादयोर्बद्धो यदि इतश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात् कल्पते, यस्तु इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि तत्र सागारिको विद्यते तदा ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षां दातुमपि न शक्नोति, तत्र प्रतिषेध एव न भजना १०, छिन्नकरोऽपि यदि सागारिकाभावे ददाति तर्हि कल्पते ११, छिन्नपादो यद्युपविष्टः सन् सागारिकासम्पाते प्रयच्छति ततस्ततोऽपि कल्पते १२, नपुंसको यदि लिङ्गाद्यनासेवकस्तर्हि ततः कल्पते १३, आपन्नसत्त्वापि यदि नवममासगर्भा तदा स्थविरकल्पिकैः परिहार्या, तद्विपरीतायाः कराद् ग्राह्यम् १४, या बालवत्सा स्तन्यमात्रोपजीविशिशुका सा त्याज्या, यस्यास्तु बाल आहारेऽपि लगति तस्या हस्तात्कल्पते जिनकल्पिकास्तु मूलत एवापन्नसत्त्वां बालवत्सां च सर्वथा परिहरन्ति १५, भुञ्जाना अनुच्छिष्टा सती यावदद्यापि न केवलं मुखे प्रक्षिपति तावत्तद्धस्तात् कल्पते १६, भृज्यमानाऽपि यत्सचित्तं गोधूमादिकडिल्लके क्षिप्तं तत् भृष्ट्वोत्तारितं अन्यच्चाद्यापि हस्ते न गृह्णाति अत्रान्तरे यदि साधुरायातः सा चेत् ददाति तर्हि कल्पते १७, दलयन्ती सचित्तमुद्गादिना दल्यमानेन सह घरट्ठे मुक्तवती अत्रान्तरे अत्रान्तरे साध्वावागते सा यद्युत्तिष्ठति अचेतनं वा भृष्टमुद्गादिकं दलयति तर्हि तद्धस्तात्कल्पते १८, कण्डयन्त्याः कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशलके क्वापि काञ्च्यां बीजं लग्नं स्यादत्रान्तरे साधावागते यदि साऽनपाये प्रदेशे मुशलं स्थापयित्वा भिक्षां ददाति तर्हि कल्पते १९, पिंषती यदि पेषणपरिसमाप्तौ प्रासुकं वा पिंषती ददाति तदा कल्पते २०, असंसक्तं दध्यादिमन्थत्याः कल्पते २१,
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy